सामग्री पर जाएँ

भचक्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भचक्रम्, क्ली, (भानां राशीनां चक्रम् । भानां स्वस्वसंस्थानविशेषैर्विरचितो गोलाकारः पदार्थः ।) राशिचक्रम् । यथा, -- “भ्रमावर्त्तो भचक्रेऽस्मिन् ध्रुवो नाभौ व्यवस्थितः । आराचक्रे त्विन्दुभौमौ शुक्रजीवशनैश्चराः ॥ राहुः केतुरगस्त्यश्च नक्षत्राण्यथ राशयः । यदा दिक्षु च अष्टासु मेरोर्भूगोलकोद्भवा ॥ छाया भवेत्तदा रात्रिः स्याच्च तद्विरहा- द्दिनम् । सूर्य्येन्दोरुपरागस्तु गोलकच्छायया भवेत् ॥ अन्योन्ययोस्तयोरेव व्यापयोरेव कारणात् ॥ ग्रासमोक्षौ तु जायेते तत्रातः पूर्ब्बपश्चिमौ ॥ तत्र पुण्यफलाद्भागः कृतो राहोस्तु विष्णुना ॥” इत्याद्ये वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥ अथ भचक्रभ्रमणव्यवस्थामाह । “निरक्षदेशे क्षितिमण्डलोपगौ ध्रुवौ नरः पश्यति दक्षिणोत्तरौ । तदाश्रितं खे जलयन्त्रवत् सदा भ्रमद्भचक्रं निजमस्तकोपरि ॥ उदग्दिशं याति यथा यथा नर- स्तथा तथा खान्नतमृक्षमण्डलम् । उदग्ध्रुवं पश्यति चोन्नतं क्षिते- स्तदन्तरे योजनजाः पलांशकाः ॥ योजनसंख्या भांशै ३६० र्गुणिता कुपरिधिहृता ४९६७ भवन्त्यंशाः । भूमौ कक्षायां वा भागेभ्यो योजनानि च व्यस्तम् ॥” इति सिद्धान्तशिरोमणौ गोलाध्यायः ॥ (भानां नक्षत्राणां चक्रमितिविग्रहे नक्षत्र- चक्रम् । नक्षत्रसमूहश्च ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भचक्र¦ न॰ गानां नक्षत्राणां राशीनां वा चक्रम्।

१ राशि-चक्रे

२ नक्षत्रचक्रे च
“भ्रमावर्तो भचक्रेऽस्मिन् ध्रुवो नाभौव्यवस्थितः। आराचक्रे त्विन्दुभौमौ शुक्रजीवशनैश्चराः। राहुः केतुरगस्त्यश्च नक्षत्राण्यथ राशयः। यदा दिक्षु चअष्टाशु मेरोर्भूगोलकोद्भवा। कृआया भवेत्तदा रात्रिःस्याच्च तद्विरहाद्दिनम्। सूर्य्येन्द्वोरुपरागस्तु गोलक-{??}यया भवेत्। अन्योन्ययोस्तयोरेव व्यासयोरेव कार-[Page4635-a+ 38] णात्। ग्रासमोक्षौ तु जायेते तत्रातः पूर्वपश्चिमौ। तत्रपुण्यफलाद्भागः कृतो राहीस्तु विष्णुना” वह्निपु॰। अधिकं मगोलशब्दे दृश्यम्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भचक्र/ भ--चक्र n. the whole multitude of stars or asterisms ib. Var.

"https://sa.wiktionary.org/w/index.php?title=भचक्र&oldid=288225" इत्यस्माद् प्रतिप्राप्तम्