भजमानः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भजमानः, त्रि, (भजते फलमनुबध्नातीति । भज + “ताच्छील्यवयोवचनशक्तिषु चानश् ।” १ । २ । १२९ । इति आनश् । शानज् वा ।) न्याय्यम् । न्यायागतद्रव्यादिः । इत्यमरः । २ । ८ । २४ ॥ भागकर्त्ता । सेवाकर्त्ता । इति भजधातोः कर्त्तरि शानप्रत्ययेन निष्पन्नम् ॥ (सात्वतनृपस्य पुत्त्रभेदः । यथा, भागवते । ९ । २४ । ६ । “पुरुहोत्रस्त्वनोः पुत्त्रस्तस्यायुः सात्वतस्ततः । भजमानो भजिर्दिव्योवृष्णिर्देवावृधोऽन्धकः ॥”)
