सामग्री पर जाएँ

भट्टारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भट्टारः, त्रि, (भटतीति । भट् + क्विप् । भट् चासौ तारश्चेति कर्म्मधारयः । पृषोदरादित्वात् साधुः । यद्वा भट्टं स्वामित्वं ऋच्छतीति । अण् ।) पूज्यः । इति त्रिकाण्डशेषः ॥ (यथा, राजतरङ्गिण्याम् । ७ । ८६७ । “नोनसिह्लारभट्टारप्रशस्तकलसादयः । बद्द्वाथ हर्षदेवेन कारागारं प्रवेशिताः ॥”)

"https://sa.wiktionary.org/w/index.php?title=भट्टारः&oldid=153762" इत्यस्माद् प्रतिप्राप्तम्