भट्टारकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भट्टारकः, पुं, (भट्टार । संज्ञायां कन् ।) नाट्योक्तौ राजा । इत्यमरः । १ । ७ । १३ ॥ देवः । तपोधनः । इति मेदिनी । के, २५० ॥ पूज्ये त्रि । इति जटाधरः ॥ (यथा, राजतरङ्गिण्याम् । ६ । २४० । “प्रविष्टेषु ततः कोपात् पुरं शुभधरादिषु । भट्टारकामठेदिद्दा भूयः पुत्त्रं व्यसर्ज्जयत् ॥”)
