भण्डी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भण्डी, स्त्री, (भण्डते इति । भडि-इन् ।) कृदि- कारादिति पक्षे ङीप् ।) मञ्जिष्ठा । इत्यमरः । २ । ४ । ९१ ॥ (पर्य्यायोऽस्या यथा, -- “मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका । मण्डूकपर्णी भण्डीरी भण्डी योजनबल्ल्यपि ॥ रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका । भण्डीतकी गण्डीरी च मञ्जूषा वस्त्रराजिनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) शिरीषवृक्षः । इति राजनिर्घण्टः ॥ (पर्य्या- योऽस्या यथा, -- “शिरीषो भण्डिलो भण्डी भण्डीरश्च कपीतनः । शुकपुष्पः शुकतरुर्मृदुपुष्पः शुकप्रियः ॥” श्वेतत्रिवृता । तत्पर्य्यायो यथा, -- “श्वेतात्रिवृता भण्डी स्यात् त्रिवृता त्रिपुटापि च । सर्व्वानुभूतिः सरला निशोत्रा रेचनीति च ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भण्डी स्त्री।
मञ्जिष्टा
समानार्थक:मञ्जिष्टा,विकसा,जिङ्गी,समङ्गा,कालमेषिका,मण्डूकपर्णी,भण्डीरी,भण्डी,योजनवल्ली
2।4।91।1।3
मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि। यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भण्डी f. See. below
भण्डी f. Rubia Munjista Car.