सामग्री पर जाएँ

भद्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भद्रः, पुं, (भन्द ते इति भदि + रन् निपातितश्च ।) शिवः । स्वञ्जरीटः । वृषभः । कदम्बकः । करि- जातिविशेषः । इति मेदिनी । रे, ७० ॥ नव- शुक्लावलान्तर्गतजिनभेदः । रामचरः । सुमेरुः । इति हेमचन्द्रः ॥ स्नुही । इति राजनिर्घण्टः ॥ (चन्दनम् । तत्पर्य्यायो यथा, -- “श्रीखण्डं चन्दनं नस्त्री भद्रः श्रीस्तैलपर्णिकः । गन्धसारो मलयजस्तथा चन्द्रद्युतिश्च सः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) साध्यमौलिकानां पद्धतिविशेषः । यथा, -- विष्णुर्नागः खिलपिलगूतैन्द्रो गुप्तः पालो भद्रः । इति कुलाचार्य्यकारिका ॥ (वसुदेवस्य पुत्त्र- भेदः । यथा, भागवते । ९ । २४ । ४७ । “सुभद्रो भद्रबाहुश्च दुर्म्मदो भद्र एव च । पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् ॥” सरोवरविशेषः । यथा, मत्स्यपुराणे । ११२ । ४६ । “अरुणोदं मानसञ्च सितोदं भद्रसंज्ञितम् । तेषामुपरि चत्वारि सरांसि च वनानि च ॥” तृतीयमनोरुत्तमस्यान्तरे देवगणभेदे बहुवच- नान्तोऽयम् । यथा, भागवते । ८ । १ । २४ । “वशिष्ठतनयाः सप्त ऋषयः प्रमदादयः । सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् ॥” स्वायम्भुवमन्वन्तरे विष्णोर्दक्षिणागर्भजात तुषित- नामकदेवगणभेदः । यथा, भागवते । ४ । १ । ६-७ । “तां कामयानां भगवानुवाह यजुषां पतिः । तुष्टायां तोषमापन्नोऽजनयद्द्वादशात्मजान् ॥ तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः ॥ इध्मः कविर्विभुः स्वाह्रः सुदेवो रोचनो द्विषट् ॥” पर्व्वतविशेषः । यथा, ब्रह्माण्डपुराणे । भुवन- कोषे । ४० अध्याये । “अरक्षः शिखिरौतश्च सको वैदूर्य्यपर्व्वतः । कपिलः पिङ्गलो भद्रः सुरसश्च महाचलः ॥” एकादशद्वापरजातो महेश्वरस्य ऋषिमूर्त्त्यव- तार विशेषः । यथा, ब्रह्माण्डे । २७ अध्याये । “एकादशद्वापरे तु व्यासस्तु त्रिवृषो यदा । तदाप्यहं भविष्यामि गङ्गाद्वारे युगान्तिके ॥ भद्रो नाम महातेजास्तत्रापि मम पुत्त्रकाः । भविष्यन्ति महात्मानो सुवृत्ता वेदपारगाः ॥”)

भद्रः, त्रि, (भन्दते इति । भदि कल्याणे रन् । निपात्यते च ।) श्रेष्ठः । साधुः । इति मेदिनी । रे, ७२ ॥ (यथा, पञ्चतन्त्रे । १ । २६ । “भद्र ! कण्टक ! अयं तावदस्मत्स्वामी पिङ्गलक उदकग्रहणार्थं यमुनाकच्छमवतीर्य्य स्थितः ॥”)

"https://sa.wiktionary.org/w/index.php?title=भद्रः&oldid=153815" इत्यस्माद् प्रतिप्राप्तम्