सामग्री पर जाएँ

भद्रनिधि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भद्रनिधिः, स्त्री, (भद्रा निधयोऽत्र ।) महादान- विशेषः । यथा, -- इन्द्र उवाच । “विधानं ब्रूहि मे ब्रह्मन् ! दानस्यास्य महानिधेः । यथा देव ! विशेषेण विष्णोरानन्दकारकम् ॥” ब्रह्मोवाच । “पुण्यां तिथिं प्राप्य तु पौर्णमास्यां तथोपरागे शशिसूरयोर्वा । चतुर्युगादिष्वयनद्बये वा प्रबोधने प्रस्वपनेऽथ विष्णोः ॥ कुर्य्यादथौडुम्बरमेव कुम्भं हिरण्यमानेन यथात्मशक्त्या । तथा पिधानञ्च सुराजतं स्याद्- हिरण्यभारेण तु पूरयेत्तत् ॥ तदर्द्धतोऽर्द्धेन तदर्द्धतो वा स्वशक्तितः स्वर्णपलैः शतेन । तदर्द्धमध्येन तु वित्तशक्त्या पलत्रयादूनमथो न कुर्य्यात् ॥ तत्ताम्रभाण्डे कनकं निधेयं सवज्रनीलोत्तमपद्मरागम् । सुमुक्तवैदूर्य्यसविद्रुमञ्च तद्राजतं पात्रमधोमुखं स्यात् ॥ एवन्तु तं भद्रनिधिं सुविद्वान् कृत्वासने प्रावरणोपयुक्ते । कुशोत्तरे दर्पणचामराढ्यं सपादुकोपानहच्छत्रयुक्तम् । तं क्षौमवस्त्रोत्तमयुग्मयुक्तं सम्पूजयेन्मन्त्रवरैरथैतम् ॥ आदौ तु पञ्चामृतमाप्य विष्णुं संस्नाप्य संसारतरं समर्च्च्य । तथेश्वरं पावकमेव हुत्वा आमन्त्रयेद्भद्रनिधिं ततस्तम् ॥ श्रीखण्डकर्पूरसकुङ्कुमेन पञ्चाक्षरं नाम श्रियः प्रलिख्य । नमस्तथोङ्कारयुतञ्च पात्रे तद्राजतेऽप्येवमथार्च्चयेत्ताम् ॥ त्वया समस्तामरसिद्धयक्ष- विद्याधरेन्द्रोरगकिन्नरेन्द्रैः । गन्धर्व्वदिव्याप्सरदानवेन्द्रै- र्युतं वृतं विश्वमिदं नमस्ते ॥ समस्तसंसारकरी त्वमेव विभोः सदानन्दमयी च माया । समस्तकल्याणनिधिः समाधि- र्हरिप्रिये ! भद्रनिधे ! नमस्ते ॥ एवं संपूज्य विधिना ततो विप्रमथार्च्चयेत् । किरीटाङ्गदनिष्काग्य्रकुण्डलाङ्गुलिभूषणैः ॥ अलंकृत्य हरिं यद्वत् पीताम्बरधरं ततः । पूजयेदच्युतं ध्यात्वा मन्त्रेणानेन भक्तिमान् ॥ भूदेवोऽसि विभो ! नित्यं नित्यानन्द मयो हरे ! । हर मे दुष्करं कृष्ण ! कृपाकर ! नमोऽस्तु ते ॥ भूदेव ! भगवान् भर्ग भवभङ्गकरेश्वर ! । भवभूतिकरो जिष्णो ! प्रभविष्णो नमोऽस्तु ते ॥ एवं पूज्य हृदि ध्यात्वा तं द्विजं ब्रह्मरूपिणम् । ततो भद्रनिधिं दद्यान्मन्त्रेणानेन वासव ! ॥ स्वगोत्रोच्चारणेनादौ विप्रनाम तथात्मनः । यवदर्भतिलैः सार्द्धमुदकं संपरित्यजेत् ॥ पितृसन्तारणार्थाय नित्यानन्दविवृद्धये । सर्व्वाघौघविघाताय विष्णोर्दानं मया कृतम् ॥ तदनेन सरत्नेन धातुत्रययुतेन च । सक्षौमाम्बरयुक्तेन सादर्शपादुकेन च ॥ सासनेन सच्छत्रेण चामरोपानहेन च । सदानन्दनिधानेन प्रीयतां विष्णुरीश्वरः ॥ एवमुच्चार्य्य तं दद्याद्द्विजाय हरिरूपिणे । गोप्येन विधिना दद्याद्धेमसंख्यां न कीर्त्तयेत् ॥ प्रकीर्त्तिते कोटियुगायुतं फलं प्रगोपिते कल्पगणैर्न संक्षयः । इतीयमज्ञो न तु कीर्त्तयेत् सुधी- र्निधानमध्ये निहितञ्च यद्बसु ॥ एवं कृते स्यान्मनुजः कृतात्मा तपेन्न च स्वामरणं कदाचित् । प्रयाति विष्णोः पदमव्ययं तत् शिवात्मकानन्दमयं सदाख्यम् ॥” इत्याद्ये वह्रिपुराणे भद्रनिघिदाननामाध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भद्रनिधि¦ पु॰ दानार्थकल्पिते ताम्रादिघटितघटे तद्दानविधिश्चहेमा॰ दा॰ वामनपु॰ उक्तो यथा
“पुण्यान्तिथिं प्राप्य तु पौर्णमास्यां तथोपरागे शशि-सूर्य्ययोर्वा। चतुर्युगादिष्वयनद्वये वा प्रबोधने प्रस्व-पनेऽथ तिष्णोः। कुर्य्यादथौदुम्बरमेव कुम्भं हिरण्य-भारेण यथात्मशक्त्या। तथाविधानञ्च सुराजतं स्या-द्धिरण्यभारेण तु पूरयेत् तम्। तदर्द्धतोऽर्द्धेन तद-र्द्धती वा स्वशक्तितः स्वर्णपलैः शतेन। तदर्द्धमर्द्धेन तुवित्तशक्त्या पलत्रयादूर्द्धमपि प्रकुर्य्यात्। तत्ताम्र-भाण्डे कनकं निधाय सवज्रनीलोत्पलपद्मरागम्। समु-क्तवैद्रूर्य्यसविद्रुमञ्च तद्राजतं पात्रमधोमुखं स्यात्। एवन्तु तं भद्रनिधिं सुविद्वान् कृत्वासने प्रावरणोप-युक्ते। कुशोत्तरे दर्पणचामराणे सपादुकोपानहछत्र-युक्तम्। सत्क्षौमवस्त्रोत्तमयुग्मयुक्तं संपूजयेन्मन्त्रवरै-रथैतैः”
“आदौ तु पञ्चामृतकेन विष्णुं संस्नाप्य संसा-रहरं समर्च्य। तथेश्वरं पावकमेव हुत्वा आमन्त्र-येद्भद्रनिधिं ततस्तम्। श्रीखण्डकर्पूरसकुङ्मुमेन पञ्चा-क्षरं नाम श्रियः प्रलिख्य। नमस्तथोङ्कारयुतं चपात्रे तद्राजतेऽप्येवमथार्चयेत। त्वया समस्तामर-सिद्धयक्षविद्याधरेन्द्रोरगकिंनरेन्द्रैः। गन्धर्वविद्याधर-दानवेन्द्रैर्युतं धृतं विश्वमिदं नमस्ते। समस्तससार-करी त्वमेव विभोः सदानन्दमयी च माया। समस्त-कल्याणनिधिः समाधिः। हरिप्रिये! भद्रनिधिर्नमस्ते। एवं पूज्य विधानेन ततो विप्रमथार्चयेत्। किरीटा-ङ्गदनिष्काग्र्यकुण्डलाङ्गुलिभूषणैः। अलङ्कृत्य हरिंतद्वत् पीताम्बरधरं ततः। पूजयेदच्युतं ध्यात्वा मन्त्रेणा-नेन भक्तिमान्। भूदेवोऽसीत्यतो नित्यं नित्यानन्दमयोहरे!। हर मे दुष्कृतं कृष्ण! कृपाकर! नमस्त ते। भूदेव! भगवद्धर्म! भवभङ्गकरेश्वर!। भवभूतिकरोजिष्णो!प्रमविष्णुर्नमोऽस्तु ते। एवं पूज्य हृदि ध्यात्वा तं द्विजंविष्णु--रूपिणम्। ततो भद्रनिधिं दद्यान्मन्त्रेणानेनमानवः। स्वगोत्रोच्चारणेनादौ वपुर्नाम तथात्मनः। यवदर्भतिलै सार्द्धमुदकं संपरित्यजेत्। पितृसन्तार-णार्थाय नित्यानन्दविवृद्धये। सर्वाघौघविनाशाय विष्णो-[Page4640-a+ 38] र्दानं मया कृतम्। तदनेन सरत्नेन धातुत्रययुतेनप। सक्षौमाम्बरयुक्तेन सादर्शपादुकेन च। आसनेनसच्छत्रेण चामरोपानहेन च। सदानन्दविधानेन प्रीयतांविष्णुरीश्वरः। एवमुच्चार्य्य तन्दद्याद् द्विजाय हरि-रूपिणे। गोप्येन विधिना दद्याद्धेमसंख्यां न कीर्त्त-येत्। अकीर्त्तिते कोटिगुणायुतं फलं प्रगोपिते कल्प-गुणैर्न संशयः। इतीदमन्यस्य न कीर्त्तयेत् सुधीःनिधानमध्ये निहितञ्च यद्वसु। एवंकृते स्यान्मनुजःकृतात्मा तपेन्नवा स्यान्मरणं कदाचित्। प्रयाति विष्णोःपदमव्ययं तत् शिवात्मकानन्दमयं स्वसंस्थम्”।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भद्रनिधि/ भद्र--निधि m. " treasure of fortune " , N. of a costly vessel offered to विष्णुPur.

"https://sa.wiktionary.org/w/index.php?title=भद्रनिधि&oldid=289557" इत्यस्माद् प्रतिप्राप्तम्