भद्रपणी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भद्रपणी, स्त्री, (भद्राणि पर्णान्यस्याः । गौरादित्वात् ङीष् ।) गाम्भारी । इत्यमरः । २ । ४ । ३६ ॥ (अस्याः पर्य्यायो यथा, -- “गाम्भारी भद्रपर्णी च श्रीपर्णी मधुपर्णिका ॥ काश्मिरी काश्मरी हीरा काश्मर्य्यः पीत- रोहिणी । कृष्णवृन्ता मधुरसा महाकुसुमिकापि च ॥”) प्रसारिणी । इति जटाधरः ॥ (अस्याः पर्य्यायो यथा, -- “प्रसारणी राजबला भद्रपर्णी प्रतापनी । सरणी सारणी भद्रा बला चापि कटम्भरा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “प्रसारणी च गन्धाली भद्रपर्णी कटम्भरा ॥” इति वैद्यकरत्नमालायाम् ॥ यथा, शतपथब्राह्मणे । ३ । ४ । १ । १६ । इत्यस्य भाष्ये “काष्मर्य्यो भद्रपर्णी प्रकृतौ पलाशवैकङ्कता- दीनामैच्छिकत्वादत्र नियमविधिः ॥”)
