भयङ्करम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयङ्करम्, त्रि, (भयं करोतीति । भय + कृ + “मेघर्त्तिभयेषु कृञः ।” ३ । २ । ४३ । इति खच् । मुम्च ।) भयजनकम् । तत्पर्य्यायः । भैरवम् २ दारुणम् ३ भीषणम् ४ भीष्मम् ५ घोरम् ६ भीमम् ७ भयानकम् ८ प्रतिभयम् ९ । इत्यमरः । १ । ७ । २० ॥ भयावहम् १० । इति हेम- चन्द्रः ॥ (यथा, मार्कण्डेयपुराणे । १४ । ८६ । “वृकैर्भयङ्करैः पृष्ठं नित्यमस्योपभुज्यते ॥”) पुं, डुण्डुलपक्षी । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=भयङ्करम्&oldid=153906" इत्यस्माद् प्रतिप्राप्तम्