भयानकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भयानकः, पुं, (बिभेत्यस्मादिति । भी + “आनकः शीङ्भियः ।” उणा० । ३ । ८२ । इति आनकः ।) व्याघ्रः । राहुः । रसविशेषः । इति मेदिनी । के, २०५ ॥ स तु शृङ्गाराद्यष्टरसान्तर्गतषष्ठरसः । तस्य लक्षणं यथा, -- “भयानको भयस्थायिभावः कालाधिदैवतः । स्त्री नीचप्रकृतिः कृष्णो मतस्तत्त्वविशारदैः ॥ यस्मादुत्पद्यते भीतिस्तदत्रालम्बनं मतम् । चेष्टा घोरतरास्तस्य भवेदुद्दीपनं पुनः ॥ अनुभावोऽत्र वैवर्ण्यं गद्गदस्वरभाषणम् । प्रलयस्वेदरोमाञ्चकम्पदिक्प्रेक्षणादयः ॥ जुगुप्सावेगसंमोहसंत्रासग्लानिदीनताः । शङ्कापस्मारसंभ्रान्तिमृत्य्वाद्या व्यभिचारिणः ॥” उदाहरणं यथा, -- “नष्टं बर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा- मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः ॥” इति साहित्यदर्पणे ३ परिच्छेदः ॥
भयानकः, त्रि, (भी + आनकः ।) भयङ्करः । इत्यमरः । १ । ७ । २० ॥ (यथा, भगवद्- गीतायाम् । ११ । २७ । “वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥”
