सामग्री पर जाएँ

भरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भरः, पुं, (भरतीति । भृ + पचाद्यच् ।) अति- शयः । इत्यमरः । १ । २ । ६९ ॥ (यथा, गीत- गोविन्दे । ४१ । “पीनपयोधरभारभरेण हरिं परिरभ्य सरा- गम् ॥” भारः । यथा, भागवते । १ । ३ । २३ । “एकोनविशे विंशतिमे वृष्णिषु प्राप्य नामनी । रामकृष्णाविति भुवो भगवानहरद्भरम् ॥”) भरणकर्त्तरि, त्रि । (यथा, ऋग्वेदे । १० । १०० । २ । “भराय सु भरत भागमृत्वियं प्र वायवे शुचिपे क्रन्ददिष्टये ॥” “भराय सर्व्वेषां पोषकाय ।” इति तद्भाष्ये सायनः ॥ संग्रामः । यथा, ऋग्वेदे । ४ । ३८ । ५ । “उत स्मैनं वस्त्रमथिं न त्रायु मनुक्रोशन्ति क्षितयो भरेषु ॥” “भरेषु संग्रामेषु ।” इति तद्भाष्ये सायनः ॥)

"https://sa.wiktionary.org/w/index.php?title=भरः&oldid=153923" इत्यस्माद् प्रतिप्राप्तम्