सामग्री पर जाएँ

भरतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भरतः, पुं, (बिभर्त्ति स्वाङ्गमिति । बिभर्त्ति लोका- निति वा । भृ + “भृमृदृशियजीति ।” उणा० ३ । ११० । इति अतच् ।) नाट्यशास्त्रम् । मुनिविशेषः । स तु अलङ्कारादिशास्त्रस्य सूत्र- कर्त्ता । (भरतस्य शिष्यः । तस्येदमित्यण् । अणो लुक् ।) नटः । रामानुजः । दौष्मन्तिः । इति मेदिनी । ते, १३७-३८ ॥ शवरः । तन्तु- वायः । इति विश्वः ॥ क्षेत्रम् । भरतात्मजः । इति हेमचन्द्रः ॥ दुष्मन्तराजपुत्त्रभरतस्य पर्य्यायः । शाकुन्तलेयः २ दौष्मन्तिः ३ सर्व्व- दमनः ४ । इति त्रिकाण्डशेषः ॥ यस्त्रयस्त्रिंश- च्छतमश्वमेधं कृतवान् । पञ्चाशद्राजसूयं एव- मन्यान् नानाविधान् यज्ञानकरोत् । सप्तविंशति- सहस्रवत्सरानेकच्छत्रं राज्यं कृतवान् । तस्योत्- पत्त्यादिर्यथा, -- “दुष्मन्तो मृगयां यातः कण्वाश्रमपदं गतः । तत्रासीनां स्वप्रभया मण्डयन्तीं रमामिव ॥ विलोक्य सद्यो मुमुहे देवमायामिव स्त्रियम् । बभाषे तां वरारोहां भटैः कतिपयैर्वृतः ॥ तद्दर्शनप्रमुदितः संनिवृत्तपरिश्रमः । पप्रच्छ कामसन्तप्तः प्रहसन् श्लक्ष्णया गिरा ॥ का त्वं कमलपत्राक्षि ! कस्यासि हृदयङ्गमे ! । किं स्विच्चिकीर्षितं त्वत्र भवत्या निर्ज्जने वने ॥ व्यक्तं राजन्यतनयां वेद्म्यहं त्वां सुमध्यमे ! । न हि चेतः पौरवाणामधर्म्मे रमते क्वचित् ॥ ऋषभदेवः स्वं वर्षं कर्म्मक्षेत्रमनुमन्यमानः प्रद- र्शितगुरुकुलवासो लब्धवरैर्गुरुभिरनुज्ञातो गृह- मेधिनां धर्म्माननुशिक्ष्यमाणो जयन्त्यामिन्द्र- दत्तायामुभयविधं कर्म्म समाम्नायमभियुञ्जन्नात्म- जानामात्मसमानानां शतं जनयामास । येषां खलु महायोगी भरतो ज्येष्ठः श्रेष्ठगुण आसीत् येनेदं वर्षं भारतमिति व्यपदिशन्ति ।” इति श्रीभागवते ५ स्कन्धे ४ अध्यायः ॥ * ॥ पावक- पुत्त्रः । यथा, -- “पावनो लौकिको ह्यग्निः प्रथमो ब्रह्मणः स्मृतः । ब्रह्मौदनाग्निस्तत्पुत्त्रो भरतो नाम विश्रुतः ॥” इति मात्स्ये अग्निवंशो नाम ४८ अध्यायः ॥ रामानुजभरतस्य जन्म यथा, -- “भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः । साक्षाद्विष्णोश्चतुर्भागः सर्व्वैः समुदितो गुणैः ॥” तस्यानुगतः शत्रुघ्नः । यथा, -- “भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः । प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः ॥” स कुशध्वजकन्यां माण्डवीं परिणीतवान् । यथा, “भ्राता यवीयान् धर्म्मज्ञ एष राजा कुशध्वजः । अस्य धर्म्मात्मनो राजन् ! रूपेणाप्रतिमं भुवि ॥ सुताद्बयं नरश्रेष्ठ ! पत्न्यर्थं वरयामहे । तमेवमुक्त्वा जनको भरतञ्चाभ्यभाषत ॥ गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन ! ॥” स नन्दिग्रामे राज्यं कृतवान् । यथा, -- “सबल्कलजटाधारी मुनिवेशधरः प्रभुः । नन्दिग्रामेऽवसद्धीरः ससैन्यो भरतस्तदा ॥ सबालव्यजनं छत्रं धारयामास स स्वयम् । भरतः शासनं सर्व्वं पादुकाभ्यां निवेदयन् ॥ ततस्तु भरतः श्रीमानभिषिच्यार्य्यपादुके । तदधीनस्तदा राज्यं कारयामास सर्व्वदा ॥” इति रामायणे बालकाण्डे । १८ । ७२ । ७३ अध्यायाः । अयोध्याकाण्डे २४ अध्यायश्च ॥ तस्य द्वौ पुत्त्रौ । यथा, -- “भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च । मातुलेन सुगुप्तौ तु धर्म्मेण सुसमाहितौ ॥ भरतञ्चाग्रतः कृत्वा कुमारौ सबलानुगौ । निहत्य गन्धर्व्वसुतान् द्वे पुरे विभजिष्यतः ॥” इति रामायणे उत्तरकाण्डे १०१ अध्यायः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भरतः [bharatḥ], [भरं तनोति तन्-ड]

N. of the son of Duṣyanta and Śakuntalā, who became a universal monarch (चक्रवर्तिन्), India being called Bharatavarṣa after him. He was one of the remote ancestors of the Kauravas and Pāṇḍavas; cf. Ś.7.33.

N. of a brother of Rāma, son of Kaikeyī, the youngest wife of Daśaratha. He was very pious and righteous, and was so much devoted to Rāma that when the latter prepared to go to the forest in accordance with the wicked demand of Kaikeyī, he was very much grieved to find that his own mother had sent his brother into exile, and refusing the sovereignty that was his own, ruled the kingdom in the name of Rāma (by bringing from him his two sandals and making them the 'regents' of the realm) till he returned after his fourteen years' exile. भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः । साक्षाद्विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः ॥ Rām.1.18.13.

N. of an ancient sage who is supposed to have been the founder of the science of music and dramaturgy.

An actor, a stage-player; तत्किमित्युदासते भरताः Māl.1.

A hired soldier, mercenary.

A barbarian, mountaineer.

An epithet of Agni.

A weaver.

N. of the sage Jaḍabharata. -Comp. -अग्रजः 'the elder brother of Bharata', an epithet of Rāma; अस्त्येव मन्युर्भरताग्रजे मे R.14.73. -ऋषभः N. of Viśvāmitra. ऋषभः, -शार्दूलः, -श्रेष्ठः the best or most distinguished of the descendants of Bharata. -खण़्डम् N. of a part of India; भरतवर्षे भरतखण्डे जम्बुद्वीपे दण्डकारण्ये. -ज्ञ a. knowing the science of Bharata or the dramatic science. -पुत्रः, -पुत्रकः an actor; a mime. -वर्षः 'the country of Bharata', i. e. India. -वाक्यम् the last verse or verses in a drama, a sort of benediction (said to be in honour of Bharata, the founder of the dramatic science); तथापीदमस्तु भरत- वाक्यम् (occurring in every play); cf. Nāg.5 (end.)-शास्त्रम् = नाट्यशास्त्रम्.

"https://sa.wiktionary.org/w/index.php?title=भरतः&oldid=290861" इत्यस्माद् प्रतिप्राप्तम्