भरद्वाजः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भरद्वाजः, पुं, (द्वाभ्यां जायते इति । जन् + डः । ततः पृषोदरादित्वात् द्वाजः सङ्करः । भ्रियते मरुद्भिरिति । भृ + अप् । भरः । भरश्चासौ द्बाजश्चेति कर्म्मधारयः ।) मुनिविशेषः । स च उतथ्यपत्न्यां ममतायां बृहस्पतिवीर्य्याज्जातः । तस्य जन्मविवरणं यथा । “ततोऽस्य वितथे पुत्त्रजन्मनि पुत्त्रार्थिने मरुत्सोमयाजिने दीर्घ- तमसा पार्ष्ण्यपास्ताद्बृहस्पतिवीर्य्यादुतथ्यपत्नी- ममतासमुत्पन्नो भरद्बाजाख्यो नाम पुत्त्रो मरु- द्भिर्दत्तः । अस्यापि नामनिर्वचनश्लोकः पठ्यते । ‘मूढे भर द्वाजमिमं भर द्वाजं बृहस्पते ! । यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् ॥’ इति । भरद्वाजश्च तस्य वितथे पुत्त्रजन्मनि मरुद्भिर्दत्तो वितथसंज्ञामवाप ॥” * ॥ अस्य टीका । वितथे अर्थ सति । अत्रैवमितिहासः । बृहस्पते- रग्रजस्योतथ्यस्य ममताख्या पत्नी गर्भिण्यासीत् । तस्यां बृहस्पतिः कामाभिभूतो वीर्य्यं व्यसृजत् । तच्च गर्भं प्रविशद्गर्भस्थेन स्थानसङ्कोचभयात् पार्ष्णिप्रहारेणापास्तं बहिः पतितमपि अमोघ- वीर्य्यतया बृहस्पतेर्भरद्वाजनामपुत्त्रोऽभूत् । गर्भस्थश्च बृहस्पतिना तस्मादेवापराधादन्धो भवेति शप्तो दीर्घतमा नामाभवत् । तत्र भर- द्वाजनामनिरुक्तिपरः तत्पित्रोर्विवादकरोऽयं श्लोको देवैः पठितः । हे मूढे ममते द्बाजं द्वाभ्यामावाभ्यां जातमिमं पुत्त्रं त्वं भर रक्ष । एवं बृहस्पतिनोक्तेव ममता तमाह हे बृह- स्पते ! द्वाजं द्बाभ्यां जातमिममेकाकिनी किमि- त्यहं भरिष्यामि । त्वमिमं भरेति परस्परमुक्त्वा तं पुत्त्रं त्यक्त्वा यस्मात् पितरौ ममताबृहस्पती ततो यातौ । ततो भरद्वाजाख्योऽयम् । पाठा- न्तरे एवं विवदमानौ । यद्दुःखात् यन्निमि- त्ताद् दुःखात् पितरौ यातावित्यर्थः । तदेवं ताभ्यां त्यक्तो मरुद्भिर्भृतः । मरुत्सोमाख्येन च यागेनाराधितैर्मरुद्भिस्तस्य वितथे पुत्त्र- जन्मनि सति दत्तत्वाद्बितथसंज्ञाञ्चावाप । इति बिष्णुपुराणे ४ अंशे १९ अध्यायः ॥ * ॥ (द्वादशद्बापरेऽसावेव व्यासः । यथा, देवीभाग- वते । १ । ३ । २९ । “एकादशेऽथ त्रिवृषो भरद्वाजस्ततःपरम् । त्रयोदशे चान्तरिक्षो धर्म्मश्चापि चतुर्द्दशे ॥” यथा च भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । “रोगाः कार्श्यकरा वलक्षयकरा देहस्य चेष्टाहराः दृष्टा इन्द्रियशक्तिसंक्षयकराः सर्व्वाङ्गपीडा- कराः । धर्म्मार्थाखिलकाममुक्तिषु महाविघ्नस्वरूपा बलात् प्राणानाशु हरन्ति सन्ति यदि ते क्षेमं कुतः प्राणिनाम् ॥ तत्तेषां प्रशमाय कश्चन विधिश्चिन्त्यो भवद्भिर्बुधै- र्योग्यैरित्यभिधाय संसदि भरद्वाजं मुनिं तेऽब्रुवन् । त्वं योग्यो भगवन् ! सहस्रनयनं याचस्व लब्धं क्रमा- दायुर्व्वेदमधीत्य यं गदभयाम्मुक्ता भवामो वयम् ॥”) पक्षिविशेषः । भारुइ इति भाषा । तत्पर्य्यायः । व्याघ्राटः २ । इत्यमरः । २ । ५ । १५ ॥ भर- द्वाजकः ३ । इति शब्दरत्नावली ॥ (गोत्रभेदः । यथा, मनौ । “शाण्डिल्यः काश्यपश्चैव वात्स्यः सावर्णकस्तथा । भरद्वाजो गौतमश्च सौकालीनस्तथापरः ॥” इत्यादि गोत्रशब्दे द्रष्टव्यम् ॥ भृ + शतृ । भरत् + वाजः । संभ्रियमाणहविर्लक्षणान्नेयज- मानादौ, त्रि । यथा, ऋग्वेदे । १ । ११६ । १८ । “यदयातं दिवोदासाय वर्त्तिर्भरद्वाजायाश्विना हयन्ता ॥” “भरद्वाजाय संभ्रियमाणहविर्लक्षणान्नाय यज- मानाय ।” इति तद्भाष्ये सायनाचार्य्यः ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भरद्वाजः [bharadvājḥ], 1 N. of one of the seven sages; भरे सुतान् भरे शिष्यान् भरे देवान् भरे द्विजान् । भरे भार्यां भरद्वाजां भरद्वाजे$स्मि शोभने ॥ Mb.
A sky-lark.
