भर्त्तृ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भर्त्ता, [ऋ] पुं, (बिभर्त्ति पुष्णाति पालयति धारय- तीति वा । भृञ् धारणपोषणयोः + “ण्वुल् तृचौ ।” ३ । १ । १३३ । इति तृच् ।) अधि- पतिः । (यथा, रघौ । १ । ७४ । “सोऽपश्यत् प्रणिधानेन सन्ततेः स्तम्भकारणम् । भावितात्मा भुवो भर्त्तुरथैनं प्रत्यबोधयत् ॥”) तत्पर्य्यायः । अधिपः २ ईशः ३ नेता ४ परि- वृढः ५ अधिभूः ६ पतिः ७ इन्द्रः ८ स्वामी ९ नाथः १० आर्य्यः ११ प्रभुः १२ ईश्वरः १३ विभुः १४ ईशिता १५ इनः १६ नायकः १७ । इति हेमचन्द्रः ॥ (विष्णुः । प्रपञ्चाधिष्टान- वत्त्वेन भरणात् ॥) धातरि पोष्टरि च त्रि । इति मेदिनी । ते, ३८ ॥ (यथा, ऋम्वेदे । १० । २२ । ३ । “भर्त्ता वज्रस्य धृष्णोः पिता पुत्त्रमिष प्रियम् ॥” विवाहितायाः पतिः । यथा, महाभारते । १ । १०४ । २८ । “भार्य्याया भरणाद्भर्त्ता पालनाच्च पतिः स्मृतः । अहं त्वां भरणं कृत्वा जात्यन्धं ससुतं तदा । नित्यकालं श्रमेणार्त्ता न भरेयं महातपः ॥”)
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भर्त्तृ¦ mfn. (-र्त्ता-त्त्री-र्त्तृ)
1. A cherisher, a nourisher, a protector.
2. A holder, a supporter. m. (-र्त्ता)
1. A husband.
2. A lord, a master. E. भृ to nourish, &c. aff. तृच् |
