भर्त्तृहरिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भर्त्तृहरिः, पुं, स्वनामख्यातः काव्यकर्त्तृराज- विशेषः । इति जटाधरः । स च विक्रमादित्य- भ्राता ॥ (अयमेव गन्धर्व्वसेनात् दासीगर्भ- जातः । यथा, राजावल्याम् । ४ । १-२ । “अथ कालेन कियता रममाणो महीतले । दास्यां गन्धर्व्वसेनस्तु पुत्त्रमेकमजीजनत् ॥ तस्य भर्त्तृहरीत्येवं नाम चक्रे महामतिः ॥”)
