भवः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भवः, पुं, (भूयते इति । भू + भावे अप् ।) जन्म । (यथा, याज्ञवल्क्ये । ३ । १६४ । “भवो जातिसहस्रेषु प्रियाप्रियविपर्य्ययः ॥” भवत्यस्मादिति । भू + अपादाने अप् । शिवः । इत्यमरः ॥ यथा, शतपथब्राह्मणे । ६ । १ । ३ । १५ । “तमब्रवीद् भवोऽसीति तद्यदस्य तन्नामा- करोत्पर्जत्र्यस्तद्रूपमभवत् पर्जन्यो वै भवः ॥”) स च जलमूर्त्तिः । यथा, -- “भवाय जलमूर्त्तये नमः ।” इति पार्थिवशिवलिङ्गपूजाप्रयोगः ॥ (भवति प्रभवत्यनेनेति । भू + अप् ।) क्षेमः । (यथा, महाभारते । १ । २२१ । २८ । “को हि नाम भवेनार्थी साहसेन समाचरेत् ॥” भवति उत्पद्यतेऽस्मिन्निति । भू + आधारे अप् ।) संसारः । (यथा, मार्कण्डेये । १९ । ७ । “अनघस्त्वं तथैवेयं देवी सर्व्वभवारणिः ॥”) सत्ता । प्राप्तिः । इति मेदिनी ॥
