भव्यम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भव्यम्, क्ली, (भवतीति भूयते इति वा । भू + “भव्य गेयेति ।” ३ । ३ । ६८ । इति यत् । भव्यादयः शब्दाः कर्त्तरि वा निपात्यन्ते । इति काशिका ।) फलविशेषः । चाल्ता इति भाषा ॥ तत्पर्य्यायः । भवम् २ भविष्यम् ३ भावनम् ४ वक्त्वशोधनम् ५ लोमफलम् ६ पिच्छिलबीजम् ७ । अस्य गुणाः । अम्लत्वम् । कटुत्वम् । उष्णत्वञ्च । बालस्य तस्य गुणः । वातकफापहत्वम् । पक्वस्य तस्य गुणः । मधु- राम्लत्वम् । रुचिकारित्वम् । श्रमशूलहरत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “भव्यं स्वादु कषायाम्लं हृद्यमास्यविशोधनम् । तदेव पक्वं दोषघ्नं गुरु ग्राहि विषापहम् ॥” इति राजवल्लभः ॥ अस्थि । इति मेदिनी । ये, ४३ ॥
भव्यम्, त्रि, (भवतीति । भू + कर्त्तरि निपातनात् वा यत् ।) शुभम् । (यथा, भागवते । ४ । १४ । ३० । “भग्नायां भव्ययाच्ञायां तस्मै विदुर ! चुक्रुधुः ॥”) सत्यम् । योग्यम् । भावि । इति मेदिनी शब्द- रत्नावली च ॥ (यथा, मार्कण्डेये । ७९ । ७ । “भूतभव्यभवन्नाथाः शृणु चैतत् त्रयं द्बिज ! ॥” श्रेष्ठम् । यथा, भागवते । १ । १५ । १७ । “यत्पादपद्ममभवाय भजन्ति भव्याः ॥” “भव्याः श्रेष्ठाः ।” इति तट्टीकायां स्वामी ॥ प्रसन्नम् । यथा, रामायणे । १ । ६२ । ७ । “स मे नाथो ह्यनाथस्य भव भव्येन चेतसा ॥” भव्येन प्रसन्नेन चेतसेति तट्टीकायां रामानुजः ॥)
