भस्मक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भस्मकम्, क्ली, (भस्म + संज्ञायां कन् ।) रोग- भेदः । भस्मकोट इति ख्यातः । विडङ्गः । (यथास्य पर्य्यायः । “जन्तुघ्नं भस्मकं रेणुः क्रिमिघ्नं चित्रतण्डुलम् । क्रिमिशत्रु विडङ्गश्च गर्द्दभं तच्च कैवलम् ॥” इति वैद्यकरत्नमालायाम् ॥) कलधौतम् । इति मेदिनी । के, १३३ ॥ * ॥ भस्मकस्य निदानसंप्राप्तिपूर्ब्बकं लक्षणमाह । “कट्वादिरूक्षान्नभुजां नराणां क्षीणे कफे मारुतपित्तवृद्धौ । अतिप्रवृद्धः पवनान्वितोऽग्नि- र्भुक्तं क्षणाद्भस्म करोति यस्मात् । तस्मादसौ भस्मकसंज्ञकोऽभू- दुपेक्षितोऽयं पचते च धातून् ॥” भस्मकस्य सोपद्रवमरिष्टमाह । “तृट्स्वेददाहमूर्च्छादीन् कृत्वैवात्यग्निसम्भवान् । पक्त्वान्नमाशु धात्वादीन् स क्षिप्रं नाशयेद्- ध्रुवम् ॥” इति भावप्रकाशः ॥ (अत्र तीक्ष्णाग्निव्याख्याने विजयेनोक्तम् । तीक्ष्णग्रहणेन भस्मकस्यावरोधः । अत्यन्त- तीक्ष्णाग्निरेव हि भस्मकमित्युच्यते ॥ यदुक्त- ञ्चरके चिकित्सास्थाने ऊनविंशेऽध्याये । भस्मकचिकित्सामाह । “बरे क्षीणकफे पित्तं कुपितं मारुतानुगम् । स्वोष्मणा पावकस्थाने बलमग्नेः प्रयच्छति ॥ तथा लब्धबलो देहे विरूक्षे सानिलोऽनलः । परिभूय पचत्यन्नं तैक्ष्ण्यादाशु मुहुर्मुहुः ॥ पक्त्वान्नं सततं धातून् शोणितादीन् पचत्यपि । ततो दौर्ब्बल्यमातङ्कान् मृत्युञ्चोपनयेन्नरम् ॥ भुक्तेऽन्ने लभते शान्तिं जीर्णमात्रे प्रताम्यति ॥” “तमत्यग्निं गुरुस्निग्धशीतमधुरविज्वलैः ॥ अन्नपानैर्नयेच्छान्तिं दीप्तमग्निमिवाम्बुभिः । मुहुर्मुहुरजीर्णेऽपि भोज्यान्यस्योपहारयेत् ॥ निरिन्धनोऽन्तरं लब्ध्वा यथैनं न विपादयेत् । पायसं कृशरं स्निग्धं पैष्टिकं गुडवैकृतम् ॥ अद्यात्तथौदकानूपपिशितानि घृतानि च । मत्स्यान् विशेषतः स्निग्धान् स्थिरतोयचरां- स्तथा ॥ आविकं सघृतं मांसमद्यादत्यग्निनाशनम् ।” “पिबेत् शीताम्बुना सर्पिर्मधूच्छिष्टेन वा युतम् । गोधूमचूर्णं पयसा ससर्पिष्कं पिबेन्नरः ॥ आनूपरससिद्धान् वा त्रीन् स्नेहांस्तैलवर्ज्जितान् । गोधूमचूर्णमन्थं वा व्यधयित्वा शिरां पिबेत् ॥” “श्यामा त्रिवृद्विपक्वं वा पयो दद्याद्विरेचनम् । असकृत् पित्तशान्त्यर्थं पायसप्रतिभोजनम् ॥ यत्किञ्चिन्मधुरं मेध्यं श्लेष्मलं गुरुभोजनम् । तदत्यग्निहितं सर्व्वं भुक्त्वा प्रस्वपनं दिवा ॥ कफे वृद्धे जिते पित्ते मारुते चानलः समः । समधातोः पचत्यन्नं पुष्ट्यायुर्बलवृद्धये ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भस्मक¦ न॰ भस्म करीति कृ--ड। (भस्मकीट) बहुभोजन-कारके
१ रोगभेदे।
“कट्वादिरूक्षान्नभुजां नराणांक्षीणे कफे मारुतपित्तवृद्धौ। अतिप्रवृद्धः पवनान्वितो-ऽग्निर्भुक्तं क्षणाद्भस्म करोति यस्मात्। तस्मादसौभस्मकसंज्ञकोऽभूदुपेक्षितोऽयं पचते च धातून्”। भस्मकस्यसोपद्रवमरिष्टमाह
“तुट्स्वेददाहमूर्च्छादीन् कृत्वैवात्य-ग्निसम्भवान्। पक्त्वान्नमाशु धात्वादीन् स क्षिप्रं नाश-येद्ध्रुवम्” भावप्र॰। भस्मेव इवार्थे कन्।
२ कलधौतेरूप्ये
३ विडङ्गे च मेदि॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भस्मक¦ n. (-कं)
1. A disease of the eyes, thickening of the menbrances, and indistinctness of vision.
2. Morbid appetite from over-diges- tion, constant craving for food with general decay.
3. An an- thelmintic plant, commonly Biranga.
4. Gold or silver. E. भस्मन् ashes, कन् aff.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भस्मक mfn. (with अग्नी)= भस्मा-ग्नि, S3a1rn3gS.
भस्मक n. a partic. disease of the eyes or morbid appetite from over-digestion(See. भस्मा-ग्नि) L.
भस्मक n. gold L.
भस्मक n. the fruit of Embelia Ribes L.
