भाक्तम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भाक्तम्, त्रि, (भक्तेः गौण्यावृत्तेरागतमिति । भक्ति + अण् ।) पारिभाषिकम् । गौणम् । लाक्ष- णिकम् । औपचारिकम् । यथा । “नन्वेवं परत्र सप्तमे मासि क्रियमाणस्य कथं षाण्मासिकत्वम् । इति चेद्भाक्तम् ।” इति तिथ्यादितत्त्वम् ॥ (भक्त- स्येदमिति तस्येदमित्यण् ।) भक्तसम्बन्धिनि च ॥ (भक्तमस्मै दीयते नियुक्तमिति । भक्त + “भक्ता- दणन्यतरस्याम् ।” ४ । ४ । ६८ । इत्यण् । अन्नेन पोष्ये च ॥)
