भागवतः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भागवतः, त्रि, (भगवान् हरिः भगवती दुर्गा वास्य देवतेति । भगवत् + “सास्य देवता ।” ४ । २ । २४ । इति अण् ।) भगवद्भक्तः । तस्य लक्षणम् । यथा, “सर्व्वदेवान् परित्यज्य नित्यं भगवदाश्रयः । रतस्तदीयसेवायां स भागवत उच्यते ॥” इति पाद्मोत्तरखण्डे ९९ अध्यायः ॥ * ॥ स च यमदूतैस्त्याज्यः । यथा, -- “ये तु भागवता लोके तच्चित्तास्तत्परायणाः । पूजयन्ति सदा विष्णुं ते च त्याज्याः सुदूरतः ॥” इति वह्निपुराणे दूतान् प्रति यमवचनम् ॥ स्कान्दे श्रीमार्कण्डेयभगीरथसंवादे । “दशमीशेषसंयुक्तं दिनं वैष्णववल्लभम् । ह्युपासते महीपाल ! ते वै भागवता नराः ॥ प्राणात्यये न चाश्नन्ति दिनं प्राप्य हरेर्नराः । कुर्व्वन्ति जागरं रात्रौ सदा भागवता हि ते ॥ उपोष्य द्बादशीं शुद्धां रात्रौ जागरणान्विताम् । पाद्मोत्तरखण्डे । “तापादिपञ्चसंस्कारी नवेज्याकर्म्मकारकः । अर्थपञ्चकविद्विप्रो महाभागवतो हि सः ॥ एकान्तेन सदा विष्णौ यस्माद्देवे परायणाः । तस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः ॥” एकादशस्कन्धे । “ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः । भजन्त्यनन्यभावेन ते वै भागवता मताः ॥ न कामकर्म्मबीजानां यस्य चेतसि सम्भवः । वासुदेवैकनिलयः स वै भागवतोत्तमः ॥” स्कान्दे । “यस्य कृच्छ्रगतस्यापि केशवे रमते मनः । न विच्युता च भक्तिर्वै स वै भागवतो नरः ॥ आपद्गतस्य यस्येह भक्तिरव्यभिचारिणी । नान्यत्र रमते चित्तं स वै भागवतो नरः ॥” हरियोगेश्वरोत्तरे । “विसृजति हृदयं न यस्य साक्षा- द्धरिरवशाभिहितोऽप्यघौघनाशः । प्रणयरसनया धृताङ्घ्रिपद्मः स भवति भागवतप्रधान उक्तः ॥” मध्यममाह तत्रैव । “ईश्वरे तदधीनेषु वालिशेषु द्विषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥” कनिष्ठस्तत्रैव । “अर्च्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥” इति श्रीहरिभक्तिविलासे १० विलासः ॥
