सामग्री पर जाएँ

भागवतम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भागवतम्, क्ली, (भगवतो भगवत्या वेदम् । भगवत् + तस्येदमित्यण् ।) अष्टादशपुराणान्तर्गतमहा- पुराणविशेषः । स च वेदव्यासकृतद्बादशस्कन्ध- द्बात्रिंशत्त्रिशताध्यायसमन्विताष्टादशसहस्र- श्लोकसंख्याक-भगवन्माहात्म्यवर्णन-प्रधानको ग्रन्थः । यथोक्तं मत्स्यपुराणे पुराणदानप्रस्तावे । “यत्राधिकृत्य गायत्त्रीं वर्ण्यते धर्म्मविस्तरः । वृत्रासुरवधोपेतं तद्भागवतमिष्यते ॥ लिखित्वा तच्च यो दद्याद्धेमसिंहसमन्वितम् । प्रौष्ठपद्यां पौर्णमास्यां स याति परमं पदम् ॥ अष्टादशसहस्राणि पुराणं तत् प्रकीर्त्तितम् ॥” पुराणान्तरे च । “ग्रन्थोऽष्टादशसाहस्रो द्वादशस्कन्धसम्मितः । हयग्रीवब्रह्मविद्या यत्र वृत्रवधस्तथा ॥ गायत्त्र्या च समारम्भस्तद्वै भागवतं विदुरिति ॥” पद्मपुराणे च अम्बरीषं प्रति गोतमवचनम् ॥ “अम्बरीष ! शुकप्रोक्तं नित्यं भागवतं शृणु । पठस्व स्वमुखेनापि यदीच्छसि भवक्षयमिति ॥” इति श्रीभागवतटीकायां श्रीधरस्वामी ॥ (तत्र तावत् पुराणेषु भागवतद्वयं प्रसिद्धम् । एकं महापुराणान्तर्गतमपरमुपपुराणान्तगतम् । लोकेऽप्युपलम्भो द्वयोर्देवीभागवतनाम्ना विष्णु- भागवतनाम्ना चास्त्येव । तत्रैकं महापुरा- णान्तर्गतमन्यदुपपुराणान्तर्गतमित्यपि निर्व्वि- वादमेव । तथापि किं देवीभागवतं महापुराण- मन्यदुपपुराणमथवा विष्णुभागवतं महापुराण- मन्यदुपपुराणमिति संशये केचित् विष्णुभाग- वतमेव महापुराणमिति वदन्ति । केचित् देवीभागवतमेव महापुराणमिति वदन्ति । तत्र प्रथमपक्षैकदेशिनः केचिदुपपुराणेषु द्बितीयं भागवतं नास्त्येव महापुराणेष्वेवैकं भागवतं प्रसिद्धम् । तच्च विष्णुभागवतमेव न देवीभागवतम् । देवीभागवतन्तु निर्मूलमेवेति वदन्ति । द्वितीवपक्षैकदेशिनोऽपि विष्णुभाग- वतं वोपदेवकृतमिति वदन्ति । वस्तुतस्तूभयो- रपि पुराणयोः पुराणमतभेदेन महापुराणत्व- मुपपुराणत्वञ्च । ननु महापुराणेष्वेवैकं भाग- वतं प्रसिद्धम् । नतूपपुराणेषु द्वितीयमस्तीति चेन्न । कूर्मगरुडपाद्मादिषूपपुराणेषु द्वितीयस्य स्पष्टपरिगणनात् । तथाहि हेमाद्रौ दानप्रस्तावे कूर्मपुराणेऽष्टादशपुराणान्युक्त्वा, -- “अन्यान्युप्रपुराणानि मुनिभिः कथितानि तु । आद्यं सनत्कुमारोक्तं नारसिंहमतः परम् ॥” इत्यादि ॥ “पराशरोक्तं प्रवरं तथा भागवताह्वयम् ॥” इति । तथा गारुडे तत्त्वरहस्ये द्वितीयांशे धर्म्मकाण्डे प्रथमाध्याये प्रथमतो महापुराणानां सात्त्वि- कादिभेदेन विभागमुक्त्वा लघुपुराणानां सात्त्वि- कादिभेदेन विभागप्रदर्शनपरे ग्रन्थेऽप्युक्तम् । इति वचनेनेश्वरप्रेरणां विनापि गृहागतमेव । अस्मिंश्च वचने भागवतपदेन विष्णुभागवतस्य ग्रहणं बन्ध्यापुत्त्रोपममेव । तत्र मुख्यत्वेन सर- स्वत्याविर्भावस्यासत्त्वात् । विष्णुभागवते द्वितीय- स्कन्धे । “पाद्मं कल्पमथो शृणु ।” इति वचनेन स्वमुखेनैव स्वस्य पाद्मकल्पकथाश्रयत्वस्योक्त- त्वात् । तद्विरोधाच्च न च पाद्मकल्प एव सार- स्वतः । सरस्वान् समुद्रस्तस्माज्जातं कमलं सार- स्वतं तस्य कल्प इति व्यत्पत्त्येति वाच्यम् । “पद्मकल्पस्य वृत्तान्तं तत्र यस्मादुदाहृतम् । तस्मात् पाद्मं समाख्यातम् ॥” इति पूर्ब्बोदाहृतशिवपुराणवचनेन । “एतदेव यदा पाद्ममभूद्धैरण्मयं जगत् । तद्वृत्तान्ताश्रयं तद्बत् पाद्ममित्युच्यते बुधैः ॥ पाद्मं तत् पञ्चपञ्चाशत्सहस्राणीह कथ्यते ॥” इति मत्स्यपुराणवचनेन । “सारस्वतस्य कल्पस्य मध्ये येस्युर्नरामराः ।” इति वचनेन च पाद्मकल्पसारस्वतकल्पयोः पृथक्कथनात् । किञ्च सारस्वतकल्पपाद्मकल्पयो- रेकत्वे पद्मकल्पस्य प्रतिपादकं पुराणद्वयं पाद्मं भागवतञ्चेत्येव वदेत् किञ्च पद्मकल्पस्य वृत्तान्त- मित्यत्राभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुता इति न्यायेन पूर्ब्बं बुद्ध्यारूढं प्रसिद्धं पाद्मशब्दं विहायाप्रसिद्धं सारस्वतशब्दं पाद्मशब्दस्य वाचकं कृत्वा सारस्वतपदघटितकल्पने प्रयो- जनाभावः । किञ्च सरस्वत्यास्तथा कल्प इत्यादेः । पूर्ब्बोक्तस्य सारस्वतपदनिरुक्त्यर्थकस्य वचनसमूहस्य विरोधश्च । न च पाद्मकल्प- सारस्वतकल्पयोः पृथक्त्वे त्रिंशत्कल्पेषु मत्स्य- पुराणान्तिमाध्याये कीर्त्तितेषु सारस्वतपदेन पाद्मस्य ग्रहणं न स्यादिति वाच्यम् । प्रभास- खण्डे त्रिंशत्कल्पेषु विष्णुजकल्पार्चिषकल्पसुपु- मान्कल्पानां ग्रहणेऽपि तेषां कल्पानां यथा मात्स्यान्तिमाध्याये न ग्रहणं तथा पाद्मस्यापि न ग्रहणमित्यस्य तुल्यत्वात् । यदि तेषां पर्य्याय- त्वेन कुत्रचिदन्तर्भावः क्रियते तर्ह्यस्यापि कुत्र- चिदन्तर्भावोऽस्तु अतएव विष्णुभागवतस्य प्रबन्धटीकाकारेण पितृकल्पे एव पूर्ब्बार्द्धान्ते पद्मस्योद्भवात् पितृकल्पपदेन पाद्मसंग्रहो वेदि- तव्य इत्युक्तम् । पुराणकल्पकथनप्रस्तावे सार- स्वतकल्पपाद्मकल्पयोः पृथक्त्वकरणेन सारस्वत- पदेन पाद्मस्य सर्व्वथा न ग्रहणम् । वस्तुतस्तु त्रिंशत्कल्पा ब्रह्मणस्त्रिंशत्तिथ्यात्मकाः त्रिंश- त्तिथिषु प्रतिपदादिषूत्पद्यन्ते । भूर्भुवःसुवः भूर्भूवःसुव इत्यादयस्त्रयस्त्रिंशत्कल्पाः । पाद्मा- दयश्च वायुपुराणोक्ता दिनकल्पा ब्रह्मणः प्रति दिवसेषूत्पद्यन्ते इति दिनकल्पतिथिकल्पानां सुतरां भेदात्तिथिकल्पेषु दिनकल्पानां पाद्मा- दीनां न ग्रहणमिति सिद्धान्तः ।

"https://sa.wiktionary.org/w/index.php?title=भागवतम्&oldid=154143" इत्यस्माद् प्रतिप्राप्तम्