भागिनेयः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भागिनेयः, पुं, (भगिन्या अपत्यम् । भगिनी + “स्त्रीभ्यो ढक् ।” ४ । १ । १२० । इति ढक् ।) भगिनीपुत्त्रः । तत्पर्य्यायः । स्वस्रीयः २ । इत्य- मरः । २ । ६ । ३२ ॥ स्वस्रियः ३ । इति शब्दरत्ना- वली ॥ स च मुख्यप्रतिनिधिः । यथा, -- “ऋत्विक् पुत्त्रो गुरुर्भ्राता भागिनेयोऽथ विट्पतिः । एभिरेव हुतं यत्तु तद्धुतं स्वयमेव हि ॥” इति तिथ्यादितत्वम् ॥ * ॥ तस्यावश्यपोष्यत्वम् यथा, -- “पितृव्यगुरुदौहित्रान् भर्त्तुः स्वस्रीयमातुलान् । पूजयेत् कव्यपूर्त्ताभ्यां वृद्धानाथातिथीन् स्त्रियः ॥” इत्यपुत्त्रधनाधिकारे दायभागः ॥ * ॥ भागिनेयदत्तककरणं शूद्रस्यैव न तु द्विजानाम् । यथा, दत्तकचन्द्रिकायां शौनकवचने । “दौहित्रो भागिनेयश्च शूद्रैस्तु क्रियते सुतः । ब्राह्मणादित्रये नास्ति भागिनेयः सुतः क्वचित् ॥” तन्मरणे मातुलस्य पक्षिण्यशौचम् । यथा । “पक्षिणी योनिसम्बन्धे बान्धवेषु तथैव च । योनिसम्बन्धे मातृष्वस्रीयपितृष्वस्रीयगागिनेयेषु । मातुलमरणे भागिनेयस्यापि पक्षिण्यशौचम् ।” इति शुद्धितत्त्वम् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भागिनेयः [bhāginēyḥ], [भगिन्या अपत्यं ढक्] A sister's son. -यी A sister's daughter.
