भाग्यम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भाग्यम्, क्ली, (भज्यतेऽनेन इति । भज + “ऋहलो- र्ण्यत् ।” ३ । १ । १२४ । इति ण्यत् । “चजोः कु घिण्ण्यतोः ।” ७ । ३ । ५२ । इति कुत्वम् ।) प्राक्तनशुभाशुभकर्म्म । तत्पर्य्यायः । दैवम् २ दिष्टम् ३ भागधेयम् ४ नियतिः ५ विधिः ६ । इत्यमरः । १ । ४ । १८ ॥ प्राक्तनकर्म्म ७ भागः ८ भवितव्यता ९ । इति जटाधरः ॥ अदृष्टम् १० । इति शब्दरत्नावली ॥ फलोन्मुखीभूत- पूर्ब्बदैहिकशुभाशुभं कर्म्म । इति मलमास- तत्त्वम् ॥ (यथा, -- “समुद्रमन्थने लेभे हरिर्लक्ष्मीं हरो विषम् । भाग्यं फलति सर्व्वत्र न विद्या न च पौरुषम् ॥” इति प्राञ्चः ॥ उत्तरफल्गुनीनक्षत्रम् । यथा, बृहत्संहि- तायाम् । १० । १ । “श्रवणानिलहस्तार्द्रा- भरणीभाग्योपगः सुतोऽर्कस्य । प्रचुरसलिलोपगूढां करोति धात्रीं यदि स्निग्धः ॥” भागो वृद्धादिरस्मिन् दीयते इति । भाग + “भागाद्यच्च ।” ५ । १ । ४९ । इति यत् ।) भागिके, त्रि । इति सिद्धान्तकौमुदी ॥ (भाग- मर्हति । भाग + “दण्डादिभ्यो यत् ।” ५ । १ । ६६ । इति यत् ।) भागार्हम् । (भज + ण्यत् । भजनीयम् ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भाग्यम् [bhāgyam], a. [भज्-ण्यत् कुत्वम्]
To be divided, divisible.
Entitled to a share.
Forming a part.
Subject to fractional deduction.
Lucky, fortunate.
ग्यम् Fate, destiny, luck, fortune; स्त्रियाचरित्रं पुरुषस्य भाग्यं देवो न जानाति कुतो मनुष्यः Subhāṣ; oft. in pl.; सा निन्दन्ती स्वानि भाग्यानि बाला Ś.5.3.
Good fortune or luck; R.3.13.
Prosperity, affluence; भाग्येष्वनुत्सेकिनी Ś.4.18.
Happiness, welfare. (भाग्येन fortunately, happily). -Comp. -आयत्त a. dependent on fate; भाग्यायत्तमतः परम् Ś.4.17; cf. also भाग्येषु शेषमायत्तं दृष्टपूर्वं न चान्यथा Pratijñā Y.2.5.
उदयः dawn of good fortune, lucky occurrence. -ऋक्षम् (भाग्यर्क्षम्) the asterism पूर्वा- फल्गुनी. -क्रमः course or turn of fortune; भाग्यक्रमेण हि धनानि भवन्ति यान्ति Mk.1.13. -पञ्चः a kind of pavilion; Vastuvidyā. -योगः a lucky or fortunate juncture.रहित a. deserted by fortune, miserable; प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः Bh.2.9. -विप्लवः ill-luck, adverseness of fate; अथवा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा R.8.47. -वशात् ind. through the will of fate, luckily, fortunately. -संक्षयः bad fortune, calamity. -संपद् good fortune, prosperity.
