भाटकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भाटकः, पुं, क्ली, (भटतीति । भट पोषणे + ण्वुल् ।) व्यवहारार्थं दत्तशकटादिलभ्यधनम् । इति हलायुधः ॥ भाडा इति माषा ॥ अथ गृहादि- भाटकम् । “परभूमौ गृहं कृत्वा भाटयित्वा वसेत्तु यः । स तद्गृहीत्वा निर्गच्छेत्तृणकाष्ठेष्टकादिकम् ॥ स्तोमं विना वसित्वा तु परभूमावनिच्छतः । निर्गच्छंस्तृणकाष्ठानि न गृह्णीयात् कथञ्चन ॥” कात्यायनः । “गृहवाप्यापणादीनि गृहीत्वा भाटकेन यः । स्वामिनो नार्पयेद्यावत्तावद्दाप्यः स भाटकम् ॥” वापी परकृता प्रतिष्ठितेति विवक्षितम् । “हस्त्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेन यः ॥ स्वामिनो नार्पयेद्यावत् तावद्दाप्यः स भाट- कम् ॥” वृद्धमनुः । “यो भाटयित्वा शकटं नीत्वा नान्यत्र गच्छति । भाटं न दद्याद्दाप्योऽसावनूढस्यापि भाटकम् ॥” शकटं वृषनौकादेरप्युपलक्षणम् । अनूढस्या- वाहितस्यापि शकटादेः । इति विवादचिन्ता- मणिः ॥
