सामग्री पर जाएँ

भाण्डम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भाण्डम्, क्ली, (भण्यते भणति वेति । भण् शब्दे + “ञमन्ताड्डः ।” उणा० १ । ११३ । इति डः । ततः प्रज्ञादित्वादण् ।) पात्रम् । (यथा, महा- भारते । १३ । ११ । १०२ । “हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥”) बणिङ्मूलधनम् । भूषा । अश्वभूषा । इति मेदिनी । डे, २१ ॥ (यथा, महाभारते । ७ । २६ । २३ । “विप्रविद्धकुथावल्गाश्छिन्नभाण्डाः परासवः । सारोहास्तुरगाः पेतुर्मथिताः पार्थमार्गणैः ॥”) नष्टभाण्डस्य दण्डादिविधिर्यथा, -- “अराजदैविकं नष्टं भाण्डं दाप्यस्तु वाहकः । प्रस्थानविघ्नकृच्चैव प्रदाप्यो द्विगुणां भृतिम् ॥ भाण्डं व्यसनमागच्छेत् यदि वाहकदोषतः । दाप्यो यत् तत्र नश्येत्तु दैवराजकृतादृते ॥” इति मिताक्षरायां नारदः ॥ नदीकूलद्वयमध्यम् । इति हेमचन्द्रः । ४ । ९२ ॥ (भण्डते इति । भडि + अच् । भण्डस्तस्य भावः इत्यण् ।) भण्डवृत्तिः । इत्यजयपालः ॥ भा~डामि इति भाषा ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भाण्डम् [bhāṇḍam], [भाण्ड्-अच् भण्-ड स्वार्थे अण् वा Tv.]

A vessel, pot, utensil (plate, dish, can &c.); ब्रह्मा येन कुलालवन्नि- यमितो ब्रह्माण्डभाण्डोदरे Bh.2.95; नीलीभाण्डम् 'an indigo-vat'; so क्षीरभाण्डम् 'milk-pail'; सुरा,˚ मद्य˚ &c.

A box, trunk, chest, case; क्षुरभाण्डम् Pt.1.

Any tool or instrument, an implement.

A musical instrument; वेणानां भाण्डवादनम् Ms.1.49.

Goods, wares, merchandise, shop-keeper's stock; भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः Ms.8.45; मथुरागामीनि भाण्डानि Pt.1.

A bale of goods.

(Fig.) Any valued possession, treasure; शान्तं वा रघुनन्दने तदुभयं तत्पुत्रभाण्डं हि मे U.4.24.

The bed of a river.

Trappings or harness of a horse; नानाङ्कचिह्नैर्नवहेमभाण्डैः Bu. Ch.2.4.

Buffoonery, mimicry (from भण्ड).

An ornament in general; नानाविकृतसंस्थानं वाजिभाण्डपरि- च्छदम् । गजग्रैवेयकक्ष्याश्च रथभाण्डांश्च संस्कृतान् ॥ Rām.6.75.1.

Paraphernalia (उपकरणजातम्); आभिषेचनिकं भाण्डं कृत्वा Rām.2.19.31.

Capital (मूलधन); सो$पि दृष्ट्वैव तं विप्रमायान्तं भाण्डजीवनः Mb.12.261.46. -ण्डाः (m. pl.) Wares, merchandise.

Comp. अ(आ)गारः, रम् a store-house, store-room (lit. where household goods and utensils &c. are kept); भाण्डागाराण्यकृत विदुषां सा स्वयं भोगभाञ्जि Vikr.18.45.

treasury; ज्ञान˚.

a collection, store, magazine.

आगारिकः a storekeeper.

a treasurer. -गोपकः the keeper of vessels (in a temple); Buddh. -पतिः a merchant.

पुटः a barber.

a kind of contrivance for calcining metals. -पुष्पः a sort of snake. -प्रतिभाण्डकम् barter, computation of the exchange of goods. -भरकः the contents of a vessel.-मूल्यम् capital in the form of wares. -वादनम् playing on a musical instrument. -शाला a store-house, store.

"https://sa.wiktionary.org/w/index.php?title=भाण्डम्&oldid=295062" इत्यस्माद् प्रतिप्राप्तम्