भाद्रपदः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भाद्रपदः, पुं, (भाद्रपदानक्षत्रयुक्ता पौर्णमासी भाद्रपदी सा यत्र मासे सः । भाद्रपदी + अण् ।) भाद्रमासः । इत्यमरः । १ । ४ । १७ ॥ (यथा, -- “ते तु भाद्रपदाद्येन द्बिमासिकेन व्याख्याताः । तद्यथा । भाद्रपदाश्वयुजौ वर्षाः ।” इति सुश्रुते सूत्रस्थाने षष्ठेऽध्याये ॥)
