सामग्री पर जाएँ

भारद्वाजः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भारद्वाजः, पुं, (भरद्वाजस्य अपत्यं गोत्रापत्य- मिति वा । भरद्वाज + “अनृष्यनान्तर्य्ये विदा- दिभ्योऽञ् ।” ४ । १ । १०४ । इति अञ् ।) द्रोणाचार्य्यः । (यथा, महाभारते । ७ । ६ । २३ । “ततः प्रयाते सहसा भरद्वाजे महारथे । आर्त्तनादेन घोरेण वसुधा समकम्पत ॥”) ऋषिभेदः । इति मेदिनी । जे, ३४ ॥ अगस्त्य- मुनिः । इति शब्दरत्नावली ॥ मङ्गलग्रहः । इति ग्रहयज्ञतत्त्वम् ॥ व्याघ्राटपक्षी । बृहस्पति- पुत्त्रः । इति हेमचन्द्रः ॥ (देशभेदः । यथा, “कृकणपर्णाद्भारद्वाजे ।” ४ । २ । १४५ । इति सूत्रे “भारद्वाजशब्दोऽपि देशवचन एव नगोत्रशब्दः ।” इति काशिका ॥ भर- द्वाजवंशीये, त्रि ॥ यथा, महाभारते । १ । १३१ । ३ । “इति सञ्चिन्त्य गाङ्गेयस्तदा भारतसत्तम ! । द्रोणाय वेदविदुषे भारद्वाजाय धीमते । पाण्डवान् कौरवांश्चैव ददौ शिष्यान्नरर्षभ ! ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भारद्वाजः [bhāradvājḥ], [भरद्वाजस्यापत्यम् अण्]

N. of Droṇa, the military preceptor of the Kauravas and Pāṇḍavas; यदाश्रौषं व्यूहमभेद्यमन्यैर्भारद्वाजेनात्तशस्त्रेण गुप्तम् Mb.1.1.19.

Of Agastya.

The planet Mars.

One of the seven Ṛiṣis.

A sky-lark.

N. of the author on the science of Government mentioned by Kauṭilya; Kau. A.1.15. -जम् A bone. -जी The wild cotton shrub. -जाः One of the अर्थशास्त्र schools mentioned by Kauṭilya in connection with राजपुत्ररक्षण; Kau. A.1.17.

"https://sa.wiktionary.org/w/index.php?title=भारद्वाजः&oldid=296007" इत्यस्माद् प्रतिप्राप्तम्