सामग्री पर जाएँ

भार्गवी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भार्गवी, स्त्री, (भार्गव + ङीप् ।) पार्व्वती । (भृगोरपत्यं स्त्री । भृगु + अण् + ङीप् ।) लक्ष्मीः । (अस्या भृगुसुतात्वमुक्तं यथा, विष्णु- पुराणे । १ । ९ । १४६ । “एतत् ते कथितं ब्रह्मन् ! यन्मां त्वं परि- पृच्छसि । क्षीराब्धौ श्रीयथा जाता पूर्ब्बं भृगुसुता सती ॥”) दूर्व्वा । इति मेदिनी । वे, ४५ ॥ (यथा, वैद्यक- रत्नमालायाम् । “सहस्रवीर्य्या दूर्व्वा तु मङ्गल्या भार्गवी रुहा ॥”) नीलदूर्व्वा । इति शब्दरत्नावली ॥ (यथास्याः पर्य्यायः । “नीलदूर्व्वा रुहानन्ता भार्गवी शतपर्व्विका । शष्पं सहस्रवीर्य्या च शतवल्ली च कीर्त्तिता ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) श्वेतदूर्व्वा । इति राजनिर्घण्टः ॥ (भृगुवंशीय- स्त्रीमात्रे । यथा, महाभारते । १ । ७३ । ३३ । “कस्माच्चिरायितोऽसीति पृष्टस्तामाह भार्ग वीम् । हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मण- कन्यया ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भार्गवी स्त्री।

लक्ष्मी

समानार्थक:लक्ष्मी,पद्मालया,पद्मा,कमला,श्री,हरिप्रिया,इन्दिरा,लोकमातृ,मा,क्षीरोदतनया,रमा,भार्गवी,लोकजननी,क्षीरसागरकन्यका,वृषाकपायी

1।1।27।4।1

ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः। लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया। इन्दिरा लोकमाता मा क्षीरोदतनया रमा। भार्गवी लोकजननी क्षीरसागरकन्यका॥

पति : विष्णुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

भार्गवी स्त्री।

दूर्वा

समानार्थक:दूर्वा,शतपर्विका,सहस्रवीर्या,भार्गवी,रुहा,अनन्ता

2।4।158।2।2

वास्तुकं शाकभेदाः स्युर्दूर्वा तु शतपर्विका। सहस्रवीर्याभार्गव्यौ रुहानन्ताथ सा सिता॥

 : शुक्लदूर्वा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भार्गवी [bhārgavī], 1 The Dūrvā grass.

An epithet of Lakṣmī.

Of Pārvatī.

Of Devayānī; सर्वत्र सङ्ग- मुत्सृज्य स्वप्नौपम्येन भार्गवी Bhāg.9.19.28.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भार्गवी f. a female descendant of भृगुPa1n2. 2-4 , 65

भार्गवी f. Bhargava's i.e. शुक्र's daughter R.

भार्गवी f. N. of देव-यानीf. MBh. BhP.

भार्गवी f. of लक्ष्मीL.

भार्गवी f. of पार्वतीL.

भार्गवी f. Panicum Dactylon and another species L.

"https://sa.wiktionary.org/w/index.php?title=भार्गवी&oldid=296515" इत्यस्माद् प्रतिप्राप्तम्