भार्य्या
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भार्य्या, स्त्री, (भरणीया इति । भृ + “ॠह- लोर्ण्यत् ।” ३ । १ । १२४ । इति ण्यत् । टाप् । यद्वा भया दीप्त्या आर्य्या ।) वेदविधा- नेनोढा । विधिपूर्ब्बकविवाहिता । तत्पर्य्यायः । पत्नी २ पाणिगृहीती ३ द्वितीया ४ सह- धर्म्मिणी ५ जाया ६ दाराः ७ सहधर्म्मिणी बहुभार्य्यस्य भार्य्याणामृतुमैथुननाशनम् । न किञ्चिद्विद्यते कर्म्म शास्त्रेणापि यदीरितम् ॥ तोषयेत् सततं भार्य्या विधिवत् पाणिपीडिताः । तासां तुष्ट्या तु कल्याणमकल्याणमतोऽन्यथा ॥ सन्तुष्टो भार्य्यया भर्त्ता भर्त्त्रा भार्य्या तथैव च । यस्मिन्नेतत्कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥ यया विरुध्यते स्वामी सौभाम्यमददृप्तया । सपत्नीसङ्गमं कर्त्तुं सा स्याद्वेश्या भवान्तरे ॥ इहापि लोके वाच्यत्वमधर्म्मञ्चापि विन्दति । न च पितृकुलं स्वामिकुलं तस्याः प्रमोदते ॥ विरुध्यमाने पत्यौ यत् सपत्न्या वा प्रवर्त्तिते । अतीव दुःखं भवति तदकल्याणकृत्तयोः ॥” इति कालिकापुराणे २० अध्यायः ॥ रजस्वला भार्य्या अत्याज्या । यथा, -- “न धिनोतीह यो दारान् रजसा कलुषीकृतः । प्रेतपैत्र्याहृते कुण्डे रेतसाञ्च पिबत्यसौ ॥ यो जहाति रजः कृत्वा पित्र्यं स्वं तेजसा नरः । सोऽश्नाति फलमप्येवं यो न दद्यादृतुं पुनः ॥ यो बिभर्त्ति स मत्तो वै बहूनां रजसि स्थितः । रेतः पिबति तन्मग्नो पितृभ्यो योऽप्यपिण्डदः ॥ यो जहाति हि निर्द्दोषां भार्य्याञ्चैव रजस्वलाम् । शुद्धिमान् संवृतः कृत्तगर्भस्य दुरितं वहेत् ॥” इति वह्निपुराणम् ॥ कालविशेषे तद्गमननिषेधो यथा, -- “न दिवापि स्त्रियं गच्छेत् कदाचिदिच्छयापि च । न पर्व्वसु न सन्ध्यासु नाद्यर्त्तु चतूरात्रिषु ॥ नोदक्यां न दिवा गच्छेत् न सगर्भां न व्रत- स्थिताम् । अभिगच्छेदविद्वान् यस्तदायुःक्षयमेव च ॥ बन्ध्याष्टमे परित्याज्या नवमे च मृतप्रजा । एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी ॥ न वक्त्रेऽभिगमं कुर्य्यात् पाणिग्राही तु योषितः । कुर्य्याच्चेत् पितरस्तस्य पतन्ति रेतसोभुजः ॥ भार्य्याधीनं सुखं पुंसां भार्य्याधीनो धनागमः । भार्य्याधीना मखोत्पत्तिर्भार्य्याधीनः सुखोदयः ॥ यत्र भार्य्या गृहं तत्र भार्य्याधीनो गृहे वसेत् । न गृहेणगृहस्थः स्यात् भार्य्यया कथ्यते गृही ॥” इति पराशरस्मृतिः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भार्य्या¦ स्त्री भृ--ण्यत्।
१ विधिनोढायां स्त्रियाम्
२ स्त्रीमात्रे
३ भरणीयमात्रे त्रि॰। भार्य्याशब्दश्च यूपाहवनीयादिवत् अ-लौकिकसंस्कारसहितस्त्रीबोधकः। तस्याः गुणदोषा यथा
“सा भार्य्या या गृहे दक्षा सा भार्य्या या प्रियंवदा। सा भार्य्यां या प्रतिप्राणा सा भार्य्या या पतिव्रता। नित्यस्वाता सुगन्धा च नित्यञ्च प्रियवादिनी। अल्पभुक्खल्पभाषी च सततं मङ्गलैर्युता। सततं धर्मबहुलासततञ्च पतिप्रिया। सततं प्रियवक्त्री च सततं भर्तृ-कामिनी। पितृदेवक्रियायुक्ता सर्वसौभाग्यवर्द्धिनी। [Page4662-a+ 38] यस्येदृशी भवेद्भार्य्या देवेन्द्रो न स मानुषः”। (
“यस्य भार्य्या विरूपाक्षी कश्मला कलहप्रिया। उत्तरोत्तरवादा स्यात् सा जरा न जरा जरा। यस्यभार्य्या श्रितान्यत्र परवेश्माभिकाङ्क्षिणी। कुक्रियात्यक्तलज्जा च सा जरा न जरा जरा। यस्य भार्य्यागुणज्ञा च भर्त्तारमनुगामिनी। अल्पाल्पेन तु सन्तुष्टासा प्रिया न प्रिया प्रिया। दुष्टा भार्य्या शठो मित्रं भृं-त्याश्चोत्तरदायकाः। ससर्पे च गृहे वासो मृत्युरेव नसंशयः। आपत्सु मित्रं जानीयात् युद्धे शूरं वनेशुचिम्। भार्य्याञ्च विभवे क्षीणे दुर्भिक्षे च प्रिया-तिथिम्”। गारुडे
१०
८ ।
१०
९ अ॰।
“वृहस्पतिरु-वाच
“यस्य नास्ति सती भार्य्या गृहेषु प्रिय-बादिनी। अरण्यं तेन गन्तव्यं यथारण्यं तथागृहम्। शुशीला सुन्दरी शान्ता गता यस्य गृहोद-रात्। अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम्। भावानुरक्ता वनिता हृता यस्य च शत्रुणा। अरण्यंतेन गन्तर्व्यृ यथारण्यं तथा गृहम्। दैवेनापहृतायस्य पतिसाध्या पतिव्रता। अरण्यं तेन गन्तव्यं यथा-रण्यं तथा गृहम्। यस्य माता गृहे नास्तिभार्य्या चाप्रियवादिनी। अरण्यं तेन गन्तव्यं यथारण्यंतथा गृहम्। प्रियाशून्यं गृहं यस्य पूर्णं श्रीधनबन्धुभिः। अरण्यं तेन गन्तव्यं यथारण्यं तथा गृ-हम्। भार्य्याशून्या वनसमाः सभार्य्याश्च गृहा गृहाः। गृहिणी च गृहं प्रोक्तं न गृहं गृहसुच्यते। अशुचिःस्त्रीविहीनञ्च दैवे पैत्रे च कर्मणि। यदह्ना कुरुते कर्मन तस्य फलभाग्भवेत्। दाहकशक्तिहीनश्च यथामन्दो हुताशनः। प्रभाहीनो यथा सूर्य्यः शोभाहीनोयथा शशी। शक्तिहीनो यथा जीवो यथात्मा च तनुंविना। विनाधारं यथाधेयो यथेशः प्रकृतिं विना। न च शक्तो यथा यज्ञः फलदां दक्षिणां विना। कर्मिणेच फलं दातुं सामग्रीमूलमेव च। विना स्वर्णंस्वर्णकारी यथाऽशक्तः स्वकर्मणि। यथाऽशक्तः कुला-लश्च मृत्तिकाञ्च विना द्विजाः!। तथा गृही न शक्तश्चसन्ततं सर्वकर्मणि! भार्य्यामूलाश्च पुत्राश्च भार्य्यामूलागृहास्तथा। भार्य्यामूलं सुखं शश्वद् गृहस्थानां गृहेसदा। भार्य्यामूलो सदा हर्षः भार्य्यामूलञ्च मङ्गलम्। भार्य्यामूलश्च संसारो भार्य्यामूलञ्च सौरतम्। यथा रथश्चरुथिनां गृहिणाञ्च तथा गृहम्। सारथिस्तु यथा तेषां[Page4662-b+ 38] गृहस्थानां तथा प्रिया। सवरत्नप्रधाना च स्त्रीरत्नंदुष्कुलादपि। सा गृहीता गृहस्थेनैवेत्याह कमलो-द्भवः। यथा जलं विना पद्मं पद्मं शोभां विना यथा। तथैव च गृहं शश्वद् गृहिणां गृहिणीं विना”। ब्रह्मवै॰ पु॰ प्र॰ ख॰
५६ अ॰।
“तोषयेत् सततंभार्य्या विधिवत् पाणिपीडिताः। तासां तुष्ट्या तुकल्याणमकल्याणमतोऽन्यथा। सन्तुष्टो भार्य्यया भर्त्ताभर्त्रा भार्य्या तथैव च। यस्मिन्नेव कुले नित्यं कल्याणंतत्र वै ध्रुवम्। यथा विरुद्ध्यते स्वामी सौभाग्यमद-दृप्तया। असतीसङ्गमं कर्त्तुं सा स्याद्वेश्या भवान्तरे। इहापि लोकेऽवाच्यत्वमधर्मञ्चापि विन्दति। न च पितृ-कुलं स्वामिकुलं तस्याः प्रमोदते। विरुध्यमाने पत्यौ यत्सपत्न्या वा प्रवर्त्तते। अतीव दुःखं भवति तदकल्याणाकृत्तयोः” कालिकापु॰
२० अ॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भार्य्या¦ f. (-र्य्या) A wife, espoused according to the ritual of the Ve4das. E. भृ to nourish, ण्यत् aff.
