भाव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावः, पुं, (भावयति चिन्तयति पदार्थानिति । भू + णिच् + पचाद्यच् । भवतीति । भू + “भव- तेश्चेति वक्तव्यम् ।” इति काशिकोक्तेर्णो वा ।) नाट्योक्तौ विद्वान् । मानसविकारः । सत्ता । (यथा, श्रीमद्भगवद्गीतायाम् । २ । १६ । “नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥”) स्वभावः । अभिप्रायः । (यथा, रामायणे । २ । २ । १९ । (प्रधानव्यभिचारिप्रभृतयो भावशब्देनोच्यन्ते । यदुक्तं साहित्यदर्पणे तृतीयपरिच्छेदे । “सञ्चारिणः प्रधानानि देवादिविषया रतिः । उद्बुद्धमात्रः स्यायी च भाव इत्यभिधीयते ॥”) भगवद्भावो यथा, -- “शुद्धसत्त्वविशेषात्मा प्रेमसूर्य्यांशुसाम्यभाक् । रुचिभिश्चित्तमासृण्यकृदसौ भाव उच्यते ॥” इति भक्तिरसामृतसिन्धुः ॥ * ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाव पुं।

विद्वान्

समानार्थक:भाव,विद्वस्,विपश्चित्,दोषज्ञ,सत्,सुधी,कोविद,बुध,धीर,मनीषिन्,ज्ञ,प्राज्ञ,सङ्ख्यावत्,पण्डित,कवि,धीमत्,सूरिन्,कृतिन्,कृष्टि,लब्धवर्ण,विचक्षण,दूरदर्शिन्,दीर्घदर्शिन्,व्यक्त,विशारद,वृद्धि

1।7।12।1।2

भगिनीपतिरावुत्तो भावो विद्वानथावुकः। जनको युवराजस्तु कुमारो भर्तृदारकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

भाव पुं।

सत्ता

समानार्थक:भाव

3।3।208।1।1

भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु। स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने॥

पदार्थ-विभागः : , द्रव्यम्

भाव पुं।

स्वभावः

समानार्थक:संसिद्धि,प्रकृति,स्वरूप,स्वभाव,निसर्ग,अनूक,सर्ग,आत्मन्,धर्म,शील,भाव

3।3।208।1।1

भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु। स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने॥

 : सुस्वभावः

पदार्थ-विभागः : , गुणः, मानसिकभावः

भाव पुं।

अभिप्रायः

समानार्थक:अभिप्राय,छन्द,आशय,छन्द,भाव

3।3।208।1।1

भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु। स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

भाव पुं।

चेष्टा

समानार्थक:उष्ण,क्रिया,भाव

3।3।208।1।1

भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु। स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने॥

 : स्त्रीणाम्_श्रृङ्गारभावजाः_क्रिया, मुखादिविकासः, अपाङ्गदर्शनचेष्टा, अभिप्रायानुरूपचेष्टा

पदार्थ-विभागः : , क्रिया

भाव पुं।

आत्मा

समानार्थक:क्षेत्रज्ञ,आत्मन्,पुरुष,भाव,स्व

3।3।208।1।1

भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु। स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने॥

 : परमात्मा, अन्तरात्मा

पदार्थ-विभागः : , द्रव्यम्, आत्मा

भाव पुं।

जननम्

समानार्थक:जनुस्,जनन,जन्मन्,जनि,उत्पत्ति,उद्भव,जाति,भव,भाव

3।3।208।1।1

भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु। स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने॥

वैशिष्ट्य : प्राणी

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाव¦ पु॰ भावयति चिन्तयति पदार्थान् चु॰ मू--अच्। ना-ट्योक्तौ नानापदार्थचिन्तके

१ पण्डिते। भावयति ज्ञाप-यति हृदयगतम् भू--णिच्--अच्।

२ हृद्गतावस्थावेदकेमानसविकारे स्वेदकम्पादौ व्यभिचारिभावे।

३ रत्या-दिभावे मेदि॰ भू--भावे घञ्। साध्यरूपे सिद्धरूपे वा

४ क्रियारूपे धातोरर्थे।

४ रागे

५ आशये च

६ सत्तायां

७ चेष्टायाम्

८ जन्मनि च अमरः

९ विभूतौ। कर्तरि ण।

१० आत्मनि

११ बुधे

१२ जन्तौ करणे घञ्।

१४ गौरविते

१५ अभिनयभेदे त्रिका॰।

१६ योनौ

१७ उपदेशे धरणिः। संसारे भवशब्दार्थे च। ज्यो॰ उक्ते

१९ लग्नादितः तन्वादिद्वादशभावे तच्छब्दे

३८

०२ पृ॰ तदानयनञ्च दृश्यम्।

२० स्त्रीणां यौवनकाले सत्त्वभवाष्टाविंशत्यलङ्कारान्तर्गतेऽ-ङ्गजे प्रथमालङ्कारे। यथा
“यौवने सत्त्वजास्तासामष्टा-विंशतिसंख्यकाः। अलङ्कारास्तत्र भावहावहेलास्त्रयो-ऽङ्गजाः। तत्र भावः
“निर्विकारात्मके चित्ते भावःप्रथमविक्रिया”। जन्मतः प्रभृतिनिर्विकारे मनसि उद्-बुद्धमात्रो विकारो भावः। यथा
“स एव सुरभिः कालःस एव मलयानिलः! सैवेयमवला किन्तु मनोऽन्यदिवदृश्यते” सा॰ द॰। भावस्य लक्षणान्तरं यथा
“शरीरे-न्द्रियवर्गस्य विकाराणां विधायकाः। मावा विभाव-जनिताश्चित्तवृत्तय ईरिताः पुराणे नाट्यशास्त्रे चद्वयोस्तु रतिभावयोः। समानार्थतया चात्र द्वयमैक्येनलक्ष्यते”।

२१ ग्रहाणां द्वादशविधचेष्टाभेदे तदानयनं फलंच ज्यो॰ त॰ उक्तं यथा
“शयनञ्चोपवेशञ्च नेत्रपाणिः प्रकाशनम्। गमनं गम-नेच्छा च सभायां वसतिस्तथा। आगमनं भोजनञ्चनृत्यलिपसा च कौतुकम्। निदा ग्रहाणां भावाश्चद्वादशैते प्रकीर्त्तिताः”। भावानयनक्रमो यथा
“यद्राशौविद्यते स्वेटस्तेन तं परिपूरयेत्। पुनरंशेन संपूर्य्य स्वर्क्षंतत्र नियोजयेत्। जातदण्डं तथा लग्नमेकीकृत्य सदाबुधैः। रविणा मागहारेण शेषं कार्य्ये नियोजयेत्”। [Page4663-b+ 38] अंशेन लवसंख्यया। स्वर्क्षं ग्रहाणां जन्मनक्षत्रम्। तद्यथा।
“विशाखानलतोयानि वैष्णवं भगदैवतं पुष्यापौष्णोयमः सर्पो जन्मभान्यर्कतः क्रमात्। ऋक्षोराशिः। यदा मेषे ग्रहस्तदा

१ एकपूरितग्रहसंख्याङ्कः। यदा वृषेग्रहस्तदा

२ द्विपूरितो ग्रहसंख्याङ्कः कार्य्यः। जाया-सुतमृत्युतुङ्गस्वगृहत्रिकोणस्थानस्थितपापग्रहाणां नि-द्राशयनभावयोः फलम्
“निद्रायाञ्च यदा पोपोजायास्थाने शुभं वदेत्। यदि पापः शुभैर्दृष्टो नाशुभैश्चकदाचर्न। यदि वा शत्रुगेही स्याच्छयने यदि वेक्षितः। तदा नारीसमं तस्य नाशो भवति निश्चितम्। शुभा-शुभैर्यदा दृष्टः शुभग्रहसमन्विंतः। नारी च म्रि-यते तस्य प्रथमा च विशेषतः। सुतस्थाने स्थितः पापीनिद्रायां शयनेऽपि वा। तदां शुभं भवेत्तस्य नात्र कार्य्याविचारणा। तुङ्गस्थाने स्वगृहे बा त्रिकोणे वा यदाभवेत्। अपत्यस्य तदा नाशो जायते नात्र संशयः। शुभग्रहो यदा तत्र क्रूरो वा यदि वेक्षितः। तदाप्रथमापत्यस्य नाशो भवति निश्चितम्। मृत्युस्थानेस्थितः पापो निद्रायां शयनेऽपि वा। तदात्मनोऽपमृत्युःस्याद्राजतीऽपरतीऽपि वा। शुभग्रहो यदा तत्र मृ-त्युस्थानेऽपि संस्थितः। तदा च मरणं तस्य मृत्यु-स्थाने विशेषतः। पापग्रहैर्यदा दृष्टः शुभो वा शत्रु-वीक्षितः। तदा तस्य शिरश्छेदो मुनिना परिकीर्त्तितः। एवं क्रमेण बोद्धव्यं ग्रहभावे सुबुद्धिना। बलाबल-विचारेण जायते च शुभाशुभम्। ज्योतिर्वित्सु च स-र्वेषु परिहारः कृतो मया। शयनादिकभावेषु ज्ञातव्य-श्चोपदेशतः। एकादशे वा दशमालये वा धनालये वायदि वा विलग्ने। पापेन युक्तो न शुमग्रहश्चेत्तथापिसिद्धिं महतीं वटन्ति”। ग्रहभेदेन दशाभेदे फलं यथा(
“मन्दाग्निः पित्तशूली च जायते शयने नरः

१ । उपवेशे भवेच्छिल्पी श्यामवर्णस्तथा नरः

२ । नेत्रपाणौभवेत् क्रूरो जलदोषो भवेन्नरः

३ । पुण्यवान् धार्मि-कश्चैव धनवांश्च प्रकाशने

४ । गमने च रवेर्जातःकृपणो धनसंयुतः। बहुभाषी क्षमी क्रोधी लुब्ध-चित्तः सदा भवेत्

५ । अल्पभोक्ता शीघ्रगामी दीर्घायु-र्नृपवल्लभः। शूरः श्रीमान् सुशीलश्च गमनेच्छाभवोनरः

६ । सभायाश्च रवेर्जातः खलो दाता{??}मीभवेत्। दयालुः पण्डिते धीमान् गुणवान् पण्डितप्रियः

७ । आगमने भवेन्मूर्खः कुरूपो धनवान् भ-[Page4664-a+ 38] वेत्

८ । भोजने भक्षको मांसलुब्धो महावपुर्वली

९ । नृत्यकिपसो सुन्दरो वान्मी पण्डितगृहाधिपः

१० । उत्साही च महाभोगी कौतुके च दिवाकरे

११ । दाताभोक्ता प्रियः पुत्रकलत्राणां न संशयः। लिङ्गे देहेकरे चैव शुदे रोगी तथैव च। निद्रायाञ्च भवेद्भानोःक्रोधनो रक्तनेत्रकः”

१२ । इति रवेः। (
“शयने च विधौ क्रोधी दरिद्रो बहुलम्पटः

१ । उपवेशे महारोगी धनवांश्च भवेन्नरः

२ । नेत्रपाणौनेत्ररोगी श्लीपदी बहुभाषकः। क्रूरः खलोऽतिशूरञ्चजायत च विधौ तदा

३ । प्रकाशने निशानाधे धन-वाश्च भवेन्नरः। दक्षो बुद्धिमान् दाता च परदारेषु{??}म्पटः

४ । अरोगी वित्तहा चैव क्रूरकर्माधनान्वितः। शिरोरोगी दन्तशूली जायते गमनेविधौ

५ । नानामतिर्महाक्रोधी सम्पद्युक्तो भवेन्नरः। गमनेच्छुविधौ जातो धनहीनो भवेत् तदा

६ । दाताच धार्{??}कञ्चैव राजपात्री भवेत् सदा। सभायाञ्च विधीनित्य जायते पुरुषोत्तमः

७ । नित्यक्रोधी महादुःखीभवेदागमने विधौ

८ । भोजने च भवेल्लुब्धो भक्षक{??}{??}रः

९ । यो जातो नृत्यलिप्सायां गुणवान् धा-र्मिको भवेत्। बहुपुत्रो धनी दाता जायते ना{??}संशयः

१० । कौतुके च भवेद्रो{??} नानाविद्यासुतत्परः। उत्साही च महाक्रोधी जायते च सुनि-सितम्

११ । निदा{??}ं दद्रुरोगी स्यात् क्लेशपापरुजा-न्वितः। पुत्रशोकमहादुःखी नित्यं भ्रमति मेदि-नीम्”

१२ । इति चन्द्रस्य। (
“मयने च कुजे जातो लक्ष्मीवद्बहिरङ्गकः।{??}क्रोधी महादञ्चः कृपणो जायते नरः

१ । उप-वेशे यदा भौमे जायते च नराधमः। धनवान्क्रूरकर्मा च निष्ठुरो कातिवर्जितः

२ । भेत्रपाणौच यो जातोह्यक्षिरोगी भवेन्नरः। पुत्रदारधनै-र्युक्तो दारिद्र्येचैव दह्यते

३ । प्रकाशने कुजे जाती{??} पण्डितः सुधीः। नारी च{??}यते तस्य प्रथमाच{??}वशेषतः

४ । गमने च यदा जातः प्रवासी नित्यदुःखितः। शरीरे च भवेद्रोगी कण्डादिकुष्ठदद्रुकः

५ । प्रवासी गमनेच्छायां गुदरोगी भवेच्च सः। धनहीनः{??} च जायते{??}तिजस्य च

६ ।{??} यदाजातो धार्मिको बहुसम्पदा। गुणवाञ्च महादाता शिरी-रोगी भवेद् ध्रुवम्”

७ ।{??} नित्यं{??}[Page4664-b+ 38] मवति नान्यथा। कर्णरोगी पित्तशूली जायते च न-राधमः

८ । भोजने भूमिजस्यापि यो जातो मांस-लुब्धकः। वृहत्खायो महाक्रोधी मिथ्योत्साही धना-न्वितः

९ । कुजस्य नृत्यलिप्सायां यो जातो धनवान्भवेत्। दाता भोक्ता सदा मानी राजमात्रो भवेच्चसः

१० । कौतुके क्षितिजस्यापि जातो भवति पण्डितः। नानाधनेन संयुक्तो बहुपुत्रो द्विभार्य्यकः

११ । निद्रायांभूमिपुत्रस्य यो जातो मूर्ख एवः सः। कलहो बान्धवैःसार्द्धं शीकक्लेशरुजान्वितः

१२ ” इति मङ्गलस्य।
“बुधस्य शयने जातो धनवान् क्षुधितः सदा। अङ्गच्छेदाभवेद्वापि खङ्गो भवति मान्यथा

१ । उपवेशे च योजातः प्रवासी जायते ध्रुवम्। कवितागुणधीयुक्तोमौरवर्णो महाशयः

२ । नेत्रपाणौ च यो जातःश्लीपदादिरुजान्वितः। चक्षूरोगी विशेषः स्यात् पुत्र-याशी भवेद्ध्रुवम्

३ । प्रकाशने भवेत्जातो राजपात्रीथनान्वितः। नानाधनेव संयुक्तो जायते वेदपारगः

४ । गमये यो नरो जातः प्रवाकी नित्यदुःखितः। शरीरे क्षत-माप्नोति नित्यमृणो भवेच्च सः

५ । यो जातो गमनेच्छायांसम्पटो दुष्टचित्तकः। स्त्रीवशो दुष्ट{??} स नरो बहु-भाषकः

६ । समायाश्च बुधे जातो मूर्खो भवति पण्डितः। धनवान् धार्मिकञ्चैव चिररोगी भवेत्तु सः

७ । क्रूरः{??}हतो मूर्खः पापशीमो भवेन्नरः। बुधस्यानकने नित्यं जा-यते च नराधमः

८ । भोजने च भवेत् सौख्यं धनहीनोभवेन्नरः। परद्वे{??} प्रवासी च शोथमात्रव्यथान्वितः

९ । यो जातो नृत्यलिप्सायां धनवान् पण्डितः कविः। उद-साहो च महाहृष्टो भुनक्ति सुखमद्भुतम्

१० । लौतुकेच यदा जातो भवेत् सर्वजनप्रियः।{??}र्शोरोगी दद्रु-युक्तो धनवानख्यसस्यकः

११ । निद्राव्यञ्च यदा जातःसर्वदास्यैकपात्रताम्। नानाक्लेशभवाप्नोति रोगशीकजमक्षयम्”

१२ । इति बुधस्य।
“धनवान् लम्पटः श्यामः स्थूलव्रकरुत्यान्वितः। जीवस्यशयने जातो मानवो नात्र सशयः

१ । उपवेशे गुरो{??}तोबहुभाधौ च रोगवान्। पशुधाती महाशिल्पी श्लीप-टीरोगलयुतः

२ । नेत्रपाणौ सुरोर्जातः सासरोगी धनीभवेत्। क्षतादिश्चरणे नित्यं जायते मात्र संशयः

३ । गुरोः प्रकाशे धनवान् लिङ्ग{??} रुजान्वितः। दक्षो{??}ट-{??}{??}[Page4665-a+ 38] वाकपतौ

५ । गुरोश्च गमनेच्छायां जातो भवति मा-नवः। शूली धनी प्रवासी च सवाकर्मणि तत्वरः

६ । वक्त्रा दाता च धनवान् राजसेवान्वितो नरः। शूलरोगीभवेन्नित्यं सभायां वाक्पतो स्थिते

७ । धार्मिकस्तीर्थकृ-श्यानी धनी चागमने गुरोः। परदारेषु संलुब्धो जायतनात्र संशयः। भोजने बहुसौख्याद्यो मांसलुब्धो महा-सुरः। कामुकः प्रियवाक्यश्च जायते नात्र संशयः

९ । नृत्यलिप्सोः शठो वाग्यो धनवान् सात्त्विकस्तथा। मह-दैश्वर्य्यसंयुक्तो जीवस्य च भवेन्नरः

१० । कौतुके च गुरो-र्जातो धनवान् धार्मिकः सदा। नृत्योत्साही महत्-सङ्गी भुनक्ति सुखमद्भुतम्

११ निद्रायाञ्चैव यो जातश्चक्षूरोगी भवेच्च सः। कृपणो बहुभाषी च दुःखितोभ्रमते महीम्”

१२ । इति गुरोः। ( शुक्रस्य शयने जातो सम्पटो बहुभाषकः। दन्तरोगीमहाक्रोधी नीचो भवति नित्यशः

१ । उपवेशे तथा{??}तो बलवान् दाम्भिकः सदा। नित्यप्रवासी रोगी चजायते नीचसंस्थिते

२ । नेत्रपाणौ भृगोर्दुःखी रोग-शोकसमन्वितः। धनहीनो महारोगी मानवः स्यान्न-संशयः

३ । मृगोः प्रकाशने जातो विद्याधनसमन्वितः। दाता च धार्मिकश्चैव कीर्त्तिमान् जायते नरः

४ । शुक्रस्यगमने जातः पादमूले रुजान्वितः। नित्योत्साहीमहा{??}पी भवेत्तीर्थगतौ रतः

५ । गमनेच्छौ यदा जातोव्यातृनाशो भवेद्ध्रुवम्। माता च{??}यते तस्य शैशवेव्याधिसंयुतः

६ । सभायाञ्च भृगोर्जातो राजपात्रीमहाधनी। कुलशीलो महादक्षः केवलं शूलरोगवान्

७ । भृगोरागपने जातो दुःखितो बहुलम्पटः। दद्रुरोगीपुत्रशोकी जायते च नराधमः। शुक्रस्य भोजने जातोनलवान् दाम्भिकः सदा। महाधनी भवेन्नित्यं ब्राणि-{??}न विशेसतः

९ । यो जातो नृत्यलिप्सायां स वाम्भीजायते ध्रुवम्। पाण्डित्यं कविता चैव वर्द्धते च दिनेदिने। सदि चैव भवेन्नोचे मूर्खो भवति निश्चयः। तुङ्गस्थाने विशेषेण राजपात्रो महाधनी। कामुकोबहुकान्त{??} परयोषित्प्रियः सदा। महाहृष्टो महा-बन्धुः कौतुकी च भवेत् सदा। बहुपुत्रकमुत्रश्च नाना-सुख{??}मन्वितः। नीचे तद्विपरीतः स्यात् दुःखशोकसम-न्वितः

११ । निद्रायाञ्च भृगोर्जातो भवेद्रोगी च निश्चि-यम्। नित्य{??}शी महादुःखी जायते नात्र संशयः। जायाया{??}{??} यदि निद्रा भृतोर्भवेत्। तदा[Page4665-b+ 38] सर्वविनाशः स्याद्धिष्णुना परिकीर्त्तितम्”

१२ । शुक्रस्य। (
“शयने च शनेर्जातो लम्पटो बहुभाषकः। गुह्य-स्थाने भवेद्रोगी कोषवृद्धिश्च जायते। लम्बात् सप्ता-ष्टमे चैव शयनस्यः शनैश्चरः। तदा नित्यप्रवासी स्या-च्छत्रुक्षयी भवेच्च सः। उपवेशे यदा जातः श्लीपटी-दद्रुसंयुतः। धनहीनो भवेत् तस्य पीडा भवति नि-त्यशः

२ । नेत्रपाणौ यदा जातो मूर्खो भवति पण्डितः। धनवान् धार्मिकश्चैव द्विभार्य्यो बहुभाधकः

३ । प्रकाशनेच यो जाती राजपात्री भवेच्च सः। नानागुणेन गुण-वान् धार्मिकः पण्डितः शुचिः”
“मतान्तरे
“जायास्थानेच लग्ने च प्रकाशने यदा शनिः। तदा सर्वविनाशःस्याज्जातिध्वंसो भवेद् ध्रुवम्

४ । गमने च यदा जातःपादमूले रुजान्वितः। तीर्थे च गतिमान्नित्यं पुत्रदारै-विवर्जितः

५ । यो जातो गमनेच्छायां श्लोपदीरोगसं-युतः। दन्ताघाती महाक्रोधी कृपणः परनिन्दकः

६ । समायाञ्च शनौ जातः पुत्रदारधनैर्युतः। भवेत्र लभतेवित्तं नानारत्नसमन्वितम्”

७ । आगमने यदा जातीमहाक्रोधी रुजान्वितः। सर्पादिभिश्च सदष्टो भ्रा{??}नाशीभवेद् ध्रुवम्

८ । भोजने चैव यो जाती मन्दाग्निश्चमहानपि। अर्शोरोगी तथा शूसी चक्षूरोगी भवेच्च सः। यो जातो नृत्यलिप्सायां नर्त्तको बहुभाषशः जीवनेदुःखितश्चैव प्रवासी परिदेवकः

१० । कौतुके च शनेर्जातोराजपात्रो महाशयः। दाता भोक्ता महादक्षो धार्मिकःपण्डितः शुचिः

११ । निद्रायास्र शनेर्जातो धनवान् प-ण्डितः शुचिः। चक्षुरोगी पित्तशूली द्विभार्य्यो बहुपु-त्रकः। विशेषतश्च धर्मस्ये कर्मस्ये च कदाचन। यदिदैवाद्भवेन्निद्रा नाशी भवति निखितम्। कर्मनाशो धर्मनाशःक्षुधार्त्तः दुःखितः सदा। नित्यप्रवासी रोगी च कार्य्य-नाशः पदे पदे। स्यमित्रनेहे षष्ठे वा केन्द्रे वा स्वगृहेपुनः। तदा सर्वं विचार्य्यञ्च वैपरीत्येन चिन्तनम्। जायायाञ्च{??}तख्याने यदि निदा भवेत् पुनः। तदासर्वं शुभं विद्याद्विष्णुना परिकीर्त्तितम्”

१२ । शनेः। (
“शयने च यदा राहीर्जन्म यस्य षवेत् पुनः। तस्य क्लेशो महादुःखं जायते च न संशयः

१ । उपवेशेच यो जातः श्लीपदीरोगसंयुतः। बहुहानिर्नरेन्द्रस्यपीडा भवति नित्यशः

२ । नेत्रपाणौ यदा जातलक्षू-रोगी भवेद् ध्रुवम्। सर्पाधातो महागीतिर्द्धितार्य्योबहुभाषकः

३ । प्रकाशने च यो जातो धनवान् धा-[Page4666-a+ 38] र्मिकः पुनः। नित्यप्रवासी चोत्साही सात्त्विको धा-र्मिकः शुचिः

४ । गमने चैव यो जातो नानारोगै-र्धनक्षयः। दन्ताघाती महाक्रोधी पिशुनः परनिन्दकः

५ । यो जातो गमनेच्छायां बहुपुत्रो महाधनः। पण्डितोगुणवान् दाता जायते ञ्च नरोत्तमः

६ । सभायाञ्च यदाजातः कृपणो धनसंयुतः। नानागुणेन गुणवान् धा-र्मिकः पण्डितः शुचिः

७ । आगमने च यो जातो लम्पटोबहुभाषकः। सुहृद्बन्धुविनाशः स्यान्नानाक्लेशश्च जा-यते

८ । भोजने च महादुष्टो मन्दाग्निश्च रुजान्वितः। कृपणः कटुवाक्यश्च दुःखितो नित्यसेवकः

९ । यो जातोनृ{??}प्सायां खञ्जो भवति नान्यथा। पुत्रनाशो भ-वेत् तस्य जायानाशो भवेद् ध्रुवम्

१० । कौतुके चयदा जातो गुणैः सर्वैः समन्वितः। नानाधनेन धनवान्राजसेवासु तत्परः। यदि दैवाद् भवेत् तुङ्गी स्वगृहीवा कदाचन। तदा सर्वं वैपरीत्यं जायते च नसंशयः

११ । यो जातो राहुनिद्रायां दुःखितः सर्वत-स्तथा। नानास्थाने गतो वापि धनपुत्रविवर्जितः। जाया-याञ्च सुतस्थाने यातो निद्रां विधुन्तुदः। तदा सर्वं वैप-रीत्यं शतजायासमन्वितः

१२ । राहोः एवं केतूनाम्।

२२ वैशेविकोक्तेषु द्रव्यगुणकर्मसामान्यविशेषसमवायात्मकेषुषट्सु पदार्थेषु
“द्रव्यादयः पञ्च भावा अनेके समवायिनः” भाषा॰
“तथा हि पदार्थोद्विविधः भावोऽभावश्च। तत्र भावाःषट् सप्तमस्याभावत्वकीर्तनात्” सि॰ सु॰। अभाव एक इतिपदार्थाः सप्त। तत्र द्रव्यादिपञ्चकस्य अनेकत्वविशिष्टं भावत्वंलक्षणं समवायस्य भावत्वेऽपि एकत्वात् न तत्र प्रसङ्गः। तत्र च द्रव्यादिषट्कान्यतमत्वम् भावत्वमिति सि॰ मु॰। सत्तासम्बन्धित्वमिति दिनकरप्रकृतयः। सम्बन्धित्वं समवायसम्बन्धेन तादात्म्येन एकार्धसमवायेन वा बोध्यम्। तेनद्रव्यादित्रिके समवायेन, सत्तायां तादात्म्येन विशेषेषुएकार्थसमवायेन, समवाये स्यात्मकसमवायेन स्वरूपसम्बन्धविशेषेण सत्तासम्बन्धसत्त्वानाप्रसङ्गः”।
“भावो यथातथाऽभावः कार्य्यवत्कारण सतः” कुसुमा॰। भू--चिन्तायाम् करणे अच्।

२३ अन्तःकरणे
“भावदुष्टो नशुध्यति” आ॰ त॰।

२४ तन्त्रोक्ते पश्वाचारादित्रये
“भावस्तुत्रिविधा देवि! दिव्यवीरपशुक्रमात्। दिव्यवीरौमहामावौ अधमः पशुभावकः। वैष्णवः पशुमावेनपूजयेत् परमेश्वरम्। शक्तिमन्त्रे वरारोहे! पशुभावोभयानकः। दिव्ये वीरे महेशानि! जायते सिद्धिरुत्तमा”। [Page4666-b+ 38] यास्केन साध्यरूपायाः क्रियाया भावत्वमुक्तं यथा
“तद् यत्रोभे भावप्रधाने भवतः पूर्वापरीभूतं भावमाख्यातेनाचष्टे व्रजति पचतीत्युपक्रमप्रभृत्यपवर्गपर्य्यन्तं, मूर्त्तंसत्त्वभूतं सत्त्वनामभिर्व्रज्या पङ्क्तिरित्यादिभिः सत्त्वाना-मुपदेशो गौरश्वः पुरुषो हस्तीति भवतीति भावस्य, आस्तेशेते व्रजति तिष्ठतीति”। आलङ्कारिकोक्तभावस्य द्विविधतासञ्चारिव्यभिचारिभेदात् तत्तच्छब्दे दृश्यम्।

२५ सङ्गीत-सङ्गतपदार्थद्योतकहस्तादिचेष्टाभेदे च।
“यस्य च क्रिययाक्रियान्तरं लक्ष्यते स भावः” इति व्याकरणपरिभाषिते

२५ पदार्थे च तत्र च सप्तमीत्याकरे स्थितम्। भवतीतिभू--कर्त्तरि ण।

२७ उत्पत्तियुते षड्विकारयुते चपदार्थे भावविकारशब्दे दृश्यम्।

२८ सांख्यमतसिद्धेषुधर्माधर्मादिषु बुद्धिधर्मेषु
“संसरति निरुपभोगं भावैरधि-वासितं लिङ्गम्” सा॰ का॰।
“भावैरधिवासितं धर्माधर्मज्ञाना-ज्ञानवैराग्यावैराग्यैश्वर्य्यानैश्वर्प्याणि भावास्तदन्विता बुद्धिःतदन्वितञ्च सूक्ष्मशरीरमिति तदपि भावैरधिवा-सितं यथा सुरभिचम्पकसम्पर्काद्वस्त्रं तदामोदवासितंभवति तस्माद्भावैरेवाधिवासितत्वात् संसरति” तत्त्वकौ॰। तेषां करणाश्रितत्वं कार्य्याश्रितत्वञ्च दर्शितं यथा
“सांसिद्धिकाश्च भावाः प्राकृतिका वैकृतिकाश्च धर्माद्याः। दृष्टाः करणाश्रयिणः कार्य्याश्रयिणश्च कललाद्याः” सा-का॰
“वैकृतिकानैमित्तिकाः प्राकृतिकाः, स्याभाविकाःसांसिद्धिकाः भावाः यथा सर्गादावादिविद्वान् भयवान्कपिलो महामुनिर्धर्मज्ञानवैराग्यैश्वर्य्यसम्पन्नः प्रादुर्बभूवेतिस्मरन्ति। वैकृतिकाश्च भावाः असांसिद्धिकाः उपाया{??}ष्ठानोत्पन्नाः यथा प्राचेतसप्रभृतीनां महर्षीणाम्। एव-मधर्माज्ञानावैराग्यानैश्वर्य्याण्यपि। कार्य्यं शरीरं तदा-श्रयिणस्तस्यावस्याः कललबुद्बुदमांसपेशीकरण्डाङ्गप्रत्यङ्ग-व्यूहाः गर्भस्थस्य, ततो निर्गतस्य बालस्य बाल्यकौमारयौ-वनयार्द्धकातीति” त॰ कौ॰।

२९ तत्तत्पदार्थासाधारणेधर्म च
“भावे त्वतलौ” पा॰। भावशब्देनासाधारधर्मउच्यते। स च तदितरावृत्तित्वे यावत्तद्वृत्तिधर्मःयथा गोत्वमित्यादौ भावार्थकत्वप्रत्ययेन गवेतरावृत्तित्वेसति सकलगोव्यक्तिवृत्तिधर्मो बोध्यते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाव¦ m. (-वः)
1. State or condition of being.
2. Natural state of being, innate property, disposition, nature.
3. Meaning, purpose, inten- tion.
4. Mind, soul.
5. State or affection of mind, emotion, pass- ion, sentiment, especially as an object of amatory and dramatic poetry; two kinds of Bha4vas are usually enumerated, the St'hayi and Vya4bhicha4ri; the first of which comprehends eight varieties, and the second thirty-three; the list blends both feelings and effects, and sorrow, and sleep, and passion, and death, &c. are equally classed amongst the Bha4vas; dramatic writers add two other classes, the Vibha4vas or preceding states of mind, leading to a particular condition of mind or body, and Anubha4vas the external signs of any state of mind.
6. Birth.
7. Act, action.
8. Movement, gesture.
9. Wanton sport or pastime.
10. Corporeal expression of amorous sentiments; or love, of which the origin and effects are ascribed to the organs of the body.
11. Thing, subs- tance.
12. A being, a living thing.
13. The place of birth, or pudendum muliebre.
14. Superhuman power.
15. The abstract idea conveyed by any word.
16. The simple idea derived from the root, as expressed in one class of derivatives, as a going, a doing, &c.
17. Advice, instruction.
18. A learned man, a pandit, (in theatrical language; but especially applied to the manager, or principal performer.)
19. Venerable, respectable.
20. The world, the universe.
21. An organ of sense or passion. E. भू to be, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावः [bhāvḥ], [भू-भावे घञ्]

Being, existing, existence; नासतो विद्यते भावः Bg.2.16.

Becoming, occurring, taking place.

State, condition, state of being; लताभावेन परिणतमस्या रूपम् V.4; U.6.23; so कातरभावः, विवर्णभावः &c.

Manner, mode.

Rank, station, position, capacity; देवीभावं गमिता K. P.1; so प्रेष्यभावम्, किंकरभावम् &c.

(a) True condition or state, truth, reality; परं भावमजानन्तः Bg.7.24; इति मत्वा भजन्ते मां बुधा भावसम- न्विताः 1.8. (b) Sincerity, devotion; त्वयि मे भावनिबन्धना रतिः R.8.52;2.26.

Innate property, disposition, nature, temperament; स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः U.6.14.

Inclination or disposition of mind, idea, thought, opinion, supposition; हृदयनिहितभावा गूढमन्त्रप्रचाराः किमपि विगणयन्तो बुद्धिमन्तः सहन्ते Pt.3.43; Ms.8.25;4.65; निकृष्टोत्कृष्टयोर्भावं यास्तु गृह्णन्ति ताः स्त्रियः Bu. Ch.4.23.

Feeling, emotion, sentiment; एको भावः Pt.3.66; Ku.6. 95; निर्विकारात्मके चित्ते भावः प्रथमविक्रिया S. D. (In the dramatic science or in poetic compositions generally,Bhāvas are either स्थायिन् primary, or व्यभिचारिन् subordinate. The former are eight or nine, according as the Rasas are taken to be 8 or 9, each rasa having its own स्थायिभाव. The latter are thirty-three of thirty four in number, and serve to develop and strengthen the prevailing sentiment; for definition and enumeration of the several kinds, see R. G. first ānana, or K. P.4).

Love, affection; attachment; द्वन्द्वानि भावं क्रियया विवव्रुः Ku.3.35; कुमुद्वती भानुमतीव भावं (बबन्ध) R.6.36.

Purport, drift, gist, substance; इति भावः (often used by commentators); जनको$प्युत्स्मयन् राजा भावमस्या विशेषयन् । प्रतिजग्राह भावेन भावमस्या नृपोत्तम Mb.12,32.18.

Meaning, intention, sense, import; अन्योन्यभावचतुरेण सखीजनेन मुक्तास्तदा स्मितसुधामधुराः कटाक्षाः Māl.1.25.

Resolution, determination.

The heart, soul, mind; तयोर्विवृतभावत्वात् Māl.1.12; भावसंशुद्धिरित्येतत् तपो मानसमुच्यते Bg.17.16; स्व एव भावे विनिगृह्य मन्मथम् Bu. Ch.4.11.

Any existing thing, an object, a thing, substance; पश्यन्ती विविधान् भावान् Rām.2.94.18; जगति जयिनस्ते ते भावा नवेन्दुकलादयः Māl.1.17,36; R.3.41; U.3.32.

A being, living creature.

Abstract meditation, contemplation (= भावना q. v.).

Conduct, movement.

(a) Gesture, behaviour; अहिंसा समता... भवन्ति भावा भूतानाम् Bg.1.5. (b) Amorous gesture or expression of sentiment; gesture of love; कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि Ś.2.1.

Birth; तवाहं पूर्वके भावे पुत्रः परपुरंजय Rām.7.14.2.

The world, universe.

The womb.

Will; घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये Rām.6.9.38.

Superhuman power; मिथो घ्नतं न पश्यन्ति भावैर्भावं पृथग्दृशः Bhāg.1.4.27.

Advice, instruction.

(In dramas) A learned or venerable man, worthy man, (a term of address); भाव अयमस्मि V.1; तां खलु भावेन तथैव सर्वे वर्ग्याः पाठिताः) Māl.1.

(In gram.) The sense of an abstract noun, abstract idea conveyed by a word; भावे क्तः.

A term for an impersonal passive or neuter verb.

(In astr.) An astronomical house.

A lunar mansion.

An organ of sense.

Welfare (कल्याण); भावमिच्छति सर्वस्य नाभावे कुरुते मनः Mb.5.36.16.

Protection; द्रोणस्याभावभावे तु प्रसक्तानां यथा$भवत् Mb.7.25.64.

Fate, destiny (प्रारब्ध); नातिप्रहीणरश्मिः स्यात्तथा भावविपर्यये Mb.5.77.14.

Consciousness of past perceptions (वासना); येभ्यः सृजति भूतानि काले भावप्रचोदितः । महाभूतानि पञ्चेति तान्याहुर्भूतचिन्तिकाः ॥ Mb.12.275.4.

Lordship (प्रभुत्व); ते$पि भावाय कल्पन्ते राजदण्डनिपीडिताः Rām.2.67. 32.

The six states (अवस्थाषट्क); A, Rām.1.7.31.-Comp. -अनुग a. not forced, natural. (-गा) a shadow. -अन्तरम् a different state.

अद्वैतम् a natural cause.

material cause (as thread of a cloth).

identity of conception, oneness of view.

अर्थः the obvious meaning or import (of a word, phrase &c.).

the subject matter; सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः Bhāg.1.14.57. -आकूतम् (secret) thoughts of the mind; हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः Amaru.4. -आख्यः One of the two types of creation according to the Sāṅkhya philosophy; लिङ्गाख्यो भावाख्यस्तस्माद् द्विविधः प्रवर्तते सर्गः Sāṅ. K.52. -आत्मक a. real, actual. -आभासः simulation of a feeling, a feigned or false emotion.-आलीना a shadow. -एकरस a. influenced solely by the sentiment of (sincere) love; ममात्र भावैकरसं मनः स्थितम् Ku.5.82. -कर्तृकः an impersonal verb; Kāśi. on P. II.3.54. -गतिः f. power to convey human feelings; भावगतिराकृतीनाम् Pratimā 3. -गम्भीरम् ind.

heartily, from the bottom of the heart.

deeply, gravely.-गम्य a. conceived by the mind; ममत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती Me.87. -ग्राहिन् a.

understanding the sense.

appreciating the sentiment. -ग्राह्य a. to be conceived with the heart; भावग्राह्यमनीडाख्यं भावाभावकरं शिवम् Śvet. Up.5.14. -चेष्टितम् amorous gesture.

जः love.

the god of love. -ज्ञ, -विद् a. knowing the heart. -दर्शिन् a. see भालदर्शिन्. -निर्वृत्तिः the material creation (Sāṅ. phil.); न विना लिङ्गेन भावनिर्वृत्तिः Sāṅ. K.52.-नेरिः a kind of dance. -बन्धन a. enchanting or fettering the heart, linking together the hearts; रथाङ्गनाम्नोरिव भावबन्धनं बभूव यत्प्रेम परस्पराश्रयम् R.3.24. -बोधक a. indicating or revealing any feeling. -मिश्रः a worthy person, a gentleman (used in dramas); प्रसीदन्तु भावमिश्राः Ś.6. -रूप a. real, actual. -वचनम् denoting an abstract idea, conveying the abstract notion of a verb. -वाचकम् an abstract noun. -विकारः a property of a being; षड् भावविकारा भवन्तीति वार्ष्यायणिः । जायते$स्ति विपरिणमते वर्धते$पक्षीयते नश्यति । -वृत्तः an epithet of Brahman. -शबलत्वम् a mixture of various emotions (भावानां बाध्यबाधकभावमापन्नानामुदासीनानां वा व्यामिश्रणम् R. G.,vide examples given ad loc.). -शुद्धिः f. purity of mind, honesty, sincerity. -शून्य a. devoid of real love; उपचारविधिर्मनस्विनीनां न तु पूर्वाभ्यधिको$पि भावशून्यः M.3.3.-संधिः the union or co-existence of two emotions (भावसंधिरन्योन्यानभिभूतयोरन्योन्याभिभावनयोग्ययोः सामानाधिकरण्यम् R. G., see the examples there given). -समाहित a. abstracted in mind, devout. -सर्गः the mental or intellectual creation; i. e. the creation of the faculties of the human mind and their affections (opp. भौतिकसर्ग or material creation). -स्थ a. attached; devoted (to one); न वेत्सि भावस्थमिमं कथं जनम् Ku.5.58. -स्थिर a. firmly rooted in the heart; Ś.5.2. -स्निग्ध a. affectionately disposed, sincerely attached; भावस्निग्धैरुपकृतमपि द्वेष्यतां याति किंचित् Pt.1.285. -भावंगम a. charming, lovely.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाव m. ( भू)becoming , being , existing , occurring , appearance S3vetUp. Ka1tyS3r. etc.

भाव m. turning or transition into( loc. or comp. ) MBh. RPra1t.

भाव m. continuance ( opp. to cessation ; एको-ति-भाव, continuity of the thread of existence through successive births Buddh. , wrongly translated under एको-ति-भ्) MBh.

भाव m. state , condition , rank (with स्थाविर, old age ; अन्यम् भावम् आपद्यते, euphem. = he dies ; state of being anything , esp. ifc. e.g. बालभाव, the state of being a child , childhood = बालता, or त्व; sometimes added pleonastically to an abstract noun e.g. तनुता-भाव, the state of thinness) Up. S3rS. MBh. etc.

भाव m. true condition or state , truth , reality( ibc. and 650182 वेनind. really , truly) MBh. Hariv.

भाव m. manner of being , nature , temperament , character( एको भावःor एक-भ्, a simple or artless nature ; भावो भावं निगच्छति= birds of a feather flock together) MBh. Ka1v. etc.

भाव m. manner of acting , conduct , behaviour Ka1v. Sa1h.

भाव m. any state of mind or body , way of thinking or feeling , sentiment , opinion , disposition , intention( यादृशेन भावेन, with whatever disposition of mind ; भावम् अमङ्गलं-कृ, with loc. , to be ill disposed against ; भावं दृढं-कृ, to make a firm resolution) Mn. MBh. etc.

भाव m. (in rhet. )passion , emotion (2 kinds of भावs are enumerated , the स्थायिन्or primary , and व्यभिचारिन्or subordinate ; the former are 8 or 9 according as the रसs or sentiments are taken to be 8 or 9 ; the latter 33 or 34) Ka1v. Sa1h. Prata1p. etc.

भाव m. conjecture , supposition Mn. Pan5cat.

भाव m. purport , meaning , sense( इति भावः, " such is the sense " = इत्य् अर्थःor इत्य् अभिप्रा-यः, constantly used by commentators at the end of their explanations)

भाव m. love , affection , attachment( भावं-कृ, with loc. , to feel an affection for) MBh. Ka1v. etc.

भाव m. the seat of the feelings or affections , heart , soul , mind( परितुष्टेन भावेन, with a pleased mind) S3vetUp. Mn. MBh. etc.

भाव m. that which is or exists , thing or substance , being or living creature( सर्व-भावाः, all earthly objects ; भावाः स्थावर-जङ्गमाः, plants and animals) Mun2d2Up. MBh. etc.

भाव m. (in dram. ) a discreet or learned man (as a term of address = respected sir) Mr2icch. Ma1lav. Ma1lati1m.

भाव m. (in astron. ) the state or condition of a planet L.

भाव m. an astrological house or lunar mansion ib.

भाव m. N. of the 27th कल्प( s.v. ) ib.

भाव m. of the 8th (42nd) year in Jupiter's cycle of 60 years VarBr2S.

भाव m. (in gram.) the fundamental notion of the verb , the sense conveyed by the abstract noun ( esp. as a term for an impersonal passive or neuter verb having neither agent nor object expressed e.g. पच्यते, " there is cooking " or " cooking is going on ") Pa1n2. 3-1 , 66 ; 107 etc.

भाव m. N. of the author of the भावप्रकाश(= मिश्र-भाव) Cat.

भाव m. wanton sport , dalliance L.

भाव m. birth L.

भाव m. place of birth , the womb L.

भाव m. the world , universe L.

भाव m. an organ of sense L.

भाव m. superhuman power L.

भाव m. the Supreme Being L.

भाव m. advice , instruction L.

भाव m. contemplation , meditation L. (See. -समन्वित).

भाव etc. See. p.754etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHĀVA(M) I : A famous forest mentioned in the Purāṇas. Bhāva was near the Veṇumanda mountain, which was close to Dvārakā. (Sabhā Parva, Chapter 38).


_______________________________
*7th word in right half of page 127 (+offset) in original book.

BHĀVA : One of the twelve Devas born to Bhṛguvāruṇi Ṛṣi of his wife Divyā.


_______________________________
*8th word in right half of page 127 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भाव&oldid=503227" इत्यस्माद् प्रतिप्राप्तम्