भावनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भावनम् क्ली, (भू + णिच् + ल्युट् ।) भव्यम् । इति राजनिर्घण्टः ॥ चाल्ता इति भाषा ॥ (भावे ल्युट् ।) भावना । इति मेदिनी । ने, १०१ ॥ (यथा, साहित्यदर्पणे ३ परिच्छेदे । “सुखदुःखादिभिर्भावैर्भावस्तद्भावभावनम् ॥” भावयतीति । भू + णिच् + ल्युः । उत्पादके, त्रि । यथा, महाभारते । १ । २२४ । ४५ । “दृष्ट्वैव च स राजानं शङ्करो लोकभावनः । उवाच परमप्रीतः श्वेतकिं नृपसत्तमम् ॥”)
