भावना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावना, स्त्री, क्ली, (भू + णिच् + युच् ।) ध्यानम् । (यथा, गीतायाम् । २ । ६६ । “नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥”) पर्य्यालोचनम् । अधिवासनम् । इति मेदिनी । ने, १०१ ॥ त्रिविधा भावना यथा, -- “त्रिविधा भावना विप्र ! विश्वमेतन्निबोध मे । ब्रह्माख्या कर्म्मसंज्ञा च तथा चैवोभयात्मिका ॥ ब्रह्मभावात्मिका ह्येका कर्म्मभावात्मिकापरा । उभयात्मिका तथैवान्या त्रिविधा भावभावना ॥ सनन्दनादयो ब्रह्मभावभावनया युताः । कर्म्मभावनया चान्ये देवाद्याः स्थावराश्चराः ॥ हिरण्यगर्भादिषु च ब्रह्मकर्म्मात्मिका द्विधा । बोधाधिकारयुक्तेषु विद्यते भावभावना ॥” इति विष्णुपुराणे ६ अंशे ७ अध्यायः ॥ त्रिविधभावनाश्रयजीवात्मकत्वात्तदुपचारेण त्रिविधा भावनेत्युच्यते । एतद्धि हरेः स्थूलं रूपम् । अतः पररूपप्राप्त्युपायत्वात् तत्र प्रथमं मनः मन्धार्य्यमिति भावः । भावना नाम ज्ञानविशेषजा वासना । तां त्रिविधामपि संज्ञामादिशति ब्रह्माख्येति । तामेव विषय- त्रैविध्येन विविनक्ति ब्रह्मभावनात्मिकेति । भाव- भावना भावो वस्तु तद्बिषया भावना त्रिविधा । तत्र वयं ब्रह्मैव भावयामः । वयं कर्म्मैव कुर्म्मः । वयन्तूभयमिदमनुसन्दध्म इत्येवं त्रिविधा भावना । भावनायुक्तान् जीवानुदाहरति सन- न्दनादय इति द्वाभ्याम् । इति तट्टीका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावना स्त्री।

वासना

समानार्थक:विमर्श,भावना,वासना

1।5।2।4।2

धीर्धारणावती मेधा सङ्कल्पः कर्म मानसम्. अवधानं समाधानं प्रणिधानमं तथैव च। चित्ताभोगा मनस्कारश्चर्चा संख्या विचारणा। विमर्शो भावना चैव वासना च निगद्यते॥

वैशिष्ट्य : मनस्

पदार्थ-विभागः : , गुणः, मानसिकभावः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावना f. demonstration , argument , ascertainment Ya1jn5.

भावना f. feeling of devotion , faith in( loc. ) Pan5cat.

भावना f. reflection , contemplation (5 kinds with Buddhists MWB. 128 )

भावना f. saturating any powder with fluid , steeping , infusion S3a1rn3gS.

भावना f. (in arithm. ) finding by combination or composition

भावना f. (with जैनs) right conception or notion

भावना f. the moral of a fable HParis3.

भावना f. N. of an उपनिषद्

भावना f. a crow L.

भावना f. water L.

भावना f. of prec. , in comp.

"https://sa.wiktionary.org/w/index.php?title=भावना&oldid=297140" इत्यस्माद् प्रतिप्राप्तम्