भावितः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भावितः, त्रि, (भाव्यते स्मेति । भू + णिच् + क्तः ।) वासितः । प्राप्तः । इति मेदिनी । ते, १४० ॥ विशोधितः । (यथा, महाभारते । १३ । १६ । ३८ । “ये चैनं प्रतिपद्यन्ते भक्तियोगेन भाविताः । तेषामेवात्मनात्मानं दर्शयत्येष हृच्छयः ॥”) चिन्तितः । मिश्रितः । भू क शुद्धिचिन्तयोर्मि- श्रणे च इत्यस्मात् ञ्यन्तात् क्तप्रत्ययनिष्पन्नो- ऽयम् ॥ (समर्पितः । यथा, महाभारते । १ । ५ । ३२ । “एतत् संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम् । यदीश्वरे भगवति ! कर्म्म ब्रह्मणि भावितम् ॥” “भगवति भावितं समर्पितम् ।” इति तट्टीकायां श्रीधरस्वामी ॥ सिक्ताः । यथा, सुश्रुते चिकि- त्सितस्थाने । १ अध्याये । “भल्लातकान् वासयेत्तु क्षीरे प्राङ्मूत्र- भावितम् ॥”)
