भासः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भासः, पुं, (भास्यते इति । भास + भावे घञ् ।) दीप्तिः । (यथा, महाभारते । ८ । ५८ । ३१ । “चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः ।”) (भासन्ते गावोऽत्र । भास + आधारे घञ् ।) गोष्ठम् । (भासते दीप्यते इति । भास् + कर्त्तरि अच् ।) कुक्कुटः । गृघ्रः । इति विश्वः । स्वनाम- ख्यातपक्षिविशेषः । तत्पर्य्यायः । शकुन्तः २ । इति हेमचन्द्रः ॥ (यथा, महाभारते । १ । १३४ । ७० । “कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् । अभिज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् ॥” पर्व्वतभेदः । यथा, महाभारते । १४ । ४३ । ४ ॥ “हिमवान् पारिपात्रश्च सह्यो बिन्ध्यस्त्रिकूट- वान् । श्वेतो नीलश्च भासश्च कोष्ठवांश्चैव पर्व्वतः ॥”) (स्त्रियां ङीप् । प्राधायाः कन्या । यथा, महा- भारते । १ । ६५ । ४६ । “अनवद्यां मनुं वंशामसुरां मार्गणप्रियाम् । अनूपां सुभगां भासीमिति प्राधा व्यजायत ॥”)
भासः, [स्,] क्ली, (भास् + आसस् ।) दीप्तिः । इति द्विरूपकोषः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भासः [bhāsḥ], [भास्-भावे घञ्]
Brightness, light, lustre.
Fancy.
A cock; Mb.12.36.23; Bhāg.8.1.1.
A vulture.
A cow-shed (गोष्ठ).
N. of a poet; भासो हासः कविकुलगुरुः कालिदासो विलासः P.R.1.22; M.1.
A kind of bird; कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् Mb.1.132.68 (com. भासं नीलपक्षं पक्षिणं शकुन्तमित्यन्ये गृध्रमित्यपरे).
