भास्वरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भास्वरः, पुं, (भासते इति । भास् + “स्थेशभास- पिसकसो वरच् । ३ । २ । १७५ । इति वरच् ।) दिनम् । इति राजनिर्घण्टः ॥ सूर्य्यः । इति केचित् । दीप्तियुक्ते, त्रि । इति मुग्धबोध- व्याकरणम् ॥ (यथा, महाभारते । १ । ११ । ११ । “स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा । स्वं रूपं भास्वरं भूयः प्रतिपेदे महायशाः ॥” सूर्य्यस्यानुचरविशेषः । स च भगवता सूर्य्येण तारकासुरवधसाहाय्यार्थं स्कन्दाय दत्तः । यथा, महाभारते । ९ । ४५ । ३० । “सुभ्राजो भास्वरश्चैव यौ तौ सूर्य्यानुयायिनौ । तौ सूर्य्यः कार्त्तिकेयाय ददौ प्रीतः प्रतापवान् ॥”)
