भास्वान्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भास्वान्, [त्] पुं, (भासः सन्त्यस्येति । भास् + “तदस्यास्त्यस्मिन्नितिमतुप् ।” ५ । २ । ९४ । इति मतुप् । मस्य वः ।) सूर्य्यः । (यथा, मार्क- ण्डेयपुराणे । १०१ । १६ । “यथा चाराधितो देव्या सोऽदित्या कश्यपेन च । आराधितेन चोक्तं यत् तेन देवेन भास्वता ॥”) अर्कवृक्षः । इत्यमरः ॥ दीप्तिः । इति हेमचन्द्रः ॥ वीरः । इति मेदिनी ॥ दीप्तिविशिष्टे, त्रि ॥ (यथा, कुमारसम्भवे । १ । २ । “यं सर्व्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥” प्रकाशकः । यथा, मनौ । १ । ७७ । “वायोरपि विकुर्व्वाणाद्विरोचिष्णु तमोनुदम् । ज्योतिरुत्पद्यते भास्वत्तद्रूपगुणमुच्यते ॥” “भास्वत् प्रकाशकम् ।” इति तट्टीकायां कुल्लूक- भट्टः ॥)
