सामग्री पर जाएँ

भिक्षाचरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भिक्षाचरः, पुं, स्त्री, (भिक्षां चरतीति । भिक्षा + चर + “भिक्षासेनादायेषु च ।” ३ । २ । १७ । इति टः ।) भिक्षुकः । इति सिद्धान्तकोमुदी ॥ (स्वनामख्यातो भोजनरपतेः पुत्त्रः । यथा, राजतरङ्गिण्याम् । ८ । १७ । “राज्ञ्यां विभवमत्यां यं भोजो हर्षनृपात्मजः । जातं मृतद्वित्रिपुत्त्रानन्तरं गुरुभिः शिशुम् । आयुष्कामैस्तमाबद्ध्वाभव्यभिक्षाचराभिधम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=भिक्षाचरः&oldid=154367" इत्यस्माद् प्रतिप्राप्तम्