भिक्षुः

विकिशब्दकोशः तः
Jump to navigation Jump to search


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षुः, पुं, (भिक्षणशीलः । भिक्ष याचने + “सनाशंसभिक्ष उः ।” ३ । २ । १६८ । इति उः ।) ब्रह्मचार्य्याद्याश्रमचतुष्टयान्तर्गतचतुर्थाश्रमी । आश्रमशब्दोऽयं धर्म्मिपरो धर्म्मपरश्च । इति भरतः ॥ तत्पर्य्यायः । परिव्राट् २ कर्म्मन्दी ३ पाराशरी ४ मस्करी ५ इत्यमरः । २ । ७ । ४२ ॥ परिव्राजकः ६ पराशरी ७ व्रजकः ८ । इति शब्दरत्नावली ॥ तस्य धर्म्मो यथा, -- “भिक्षोर्धर्म्मं प्रवक्ष्यामि तन्निबोधत सत्तमाः । वनाद्गृहाद्वा कृत्वेष्टिं सर्व्ववेदसदक्षिणाम् ॥ प्राजापत्यां तदन्ते तु अग्निमारोप्य चात्मनि । सर्व्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः ॥ सर्व्वारामं परिव्रज्य भिक्षार्थी ग्राममाश्रयेत् । अप्रमत्तश्चरेद्भैक्ष्यं सायाह्ने नातिलक्षितः ॥ रहिते भिक्षुकैर्ग्रामे यात्रामात्रमलोलुपः । भवेत् परमहंसो वा एकदण्डो यमादिकृत् ॥ सिद्धयोगस्त्यजन् देहममृतत्वमिहाप्नुयात् । योगमभ्यस्य मितभुक् परां सिद्धिमवाप्नुयात् ॥ दातातिथिप्रियो ज्ञानी गृही श्राद्धेऽपि मुच्यते ।” इति गारुडे १०३ अध्यायः ॥ * ॥ अपि च । “चतुर्थश्चाश्रमो भिक्षोः प्रोच्यते यो मनी- षिभिः । तस्य स्वरूपं गदतो मम श्रोतुं नृपार्हसि ॥ पुत्त्रद्रव्यकलत्रेषु त्यक्तस्नेहो नराधिप ! । चतुर्थमाश्रमस्थानं गच्छेन्निर्द्धूतमत्सरः ॥ त्रैवर्णिकांस्त्यजेत् सर्व्वानारम्भानवनीपते ! । मित्रादिषु समो मैत्रः समस्तेष्वेव जन्तुषु ॥ जरायुजाण्डजादीनां वाङ्मनःकर्म्मभिः क्वचित् । युक्तः कुर्व्वीत न द्रोहं सर्व्वसङ्गांश्च वर्जयेत् ॥ एकरात्रस्थितिर्ग्रामे पञ्चरात्रस्थितिः पुरे । तथा तिष्ठेद्यथा प्रीतिर्द्बेषो वा नास्य जायते ॥ प्राणयात्रानिमित्तञ्च व्यङ्गारे भुक्तवज्जने । काले प्रशस्तवर्णानां भिक्षार्थे पर्य्यटेद् गृहान् ॥ कामः क्रोधस्तथा दर्पमोहलोभादयश्च ये । तांस्तु दोषान् परित्यज्य परिव्राण्णिर्म्ममो भवेत् ॥ अभयं सर्व्वसत्त्वेभ्यो दत्त्वा यश्चरते मुनिः । न तस्य सर्व्वभूतेभ्यो भयमुत्पद्यते क्वचित् ॥ कृत्वाग्निहोत्रं स्वशरीरसंस्थं शारीरमग्निञ्च मुखे जुहोति । विप्रस्तु भैक्षोपगतैर्हविर्भि- श्चिताग्निना स व्रजति स्म लोकान् ॥ मोक्षाश्रमं यश्चरते यथोक्तं शुचिः सुसङ्कल्पितबुद्धियुक्तिः । अनिन्धनं ज्योतिरिव प्रशान्तं स ब्रह्मलोकं श्रयति द्बिजातिः ॥” इति बिष्णुपुराणे ३ अंशे ९ अध्यायः ॥ * ॥ बुद्धभेदः । इति जटाधरः ॥ श्रावणीक्षुपः । इति राजनिर्घण्टः ॥ कोकिलाक्षः । इति भाव- प्रकाशः ॥

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षुः [bhikṣuḥ], [भिक्ष्-उन्]

A beggar, mendicant in general; भिक्षां च भिक्षवे दद्यात् Ms.3.94.

A religious mendicant, a Brāhmaṇa in the fourth order of his religious life (when he quits his house and family and lives only on alms), a Sannyāsin.

The fourth order stage in the religious life of a Brāhmaṇa (संन्यास).

A Buddhist mendicant. -Comp. -चर्या begging, a mendicant's life.-भावः monk-hood, priest-hood. -सङ्घः a society of Buddhist mendicants. -सङ्घाती old or tattered clothes (चीवर). -सूत्रम् a collection of rules for mendicants; P.IV.3.11.

"https://sa.wiktionary.org/w/index.php?title=भिक्षुः&oldid=298794" इत्यस्माद् प्रतिप्राप्तम्