भिक्षुकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भिक्षुकः, पुं, स्त्री, (भिक्षुरेव । भिक्षु + स्वार्थे कन् । यद्बा, भिक्षते इति । भिक्ष + उक ।) भिक्षोपजीवी । तत्पर्य्यायः । मार्गणः २ याच- नकः ३ वनीयकः ४ याचकः ५ । इति जटाधरः ॥ अर्थी ६ । इत्यमरः ॥ (यथा, मनुः । ३ । २४३ । “ब्राह्मणं भिक्षुकं वापि भोजनार्थमुपस्थितम् । ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ॥” पारिभाषिकभिक्षुका यथा, अत्रिः । “ब्रह्मचारी यतिश्चैव विद्यार्थी गुरुपोषकः । अध्वगः क्षीणवृत्तिश्च षडेते भिक्षुकाः स्मृताः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भिक्षुकः [bhikṣukḥ], [भिक्ष्-उक] A beggar, mendicant; आकीर्णं भिक्षुकैर्वान्यैरगारमुपसंव्रजेत् Ms.6.51. -की A female mendicant; cf. भिक्षुणी A Buddhist nun.
