भित्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भित्, [द्] स्त्री, (भिद्यते इति । भिद् + “सत् सूद्विषद्रुहदुहयुजविदभिदेति ।” ३ । २ । ६१ । इति क्विप् ।) प्रभेदः । इति जटाधरः ॥ (भिनत्तीति । भिद् + तच्छीलादिषु “अन्यतो- ऽपि दृश्यते ।” इति क्विप् ।) भेदकर्त्तरि त्रि ॥ (यथा, ऋग्वेदे । ७ । १७४ । ८ । “भिनत्पुरो न भिदो अदेवीर्न नमो वधरदेवस्य पीयोः ॥”)
