सामग्री पर जाएँ

भिन्दिपालः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भिन्दिपालः, पुं, (भिदि + इन् । भिन्दिं विदारणं पालयतोति पालि + अण् ।) हस्तप्रमाण- काण्डः । नालिकास्त्रमिति ख्यातम् । इति भरतः ॥ हस्तक्षेप्यलगुडः । इति स्वामी ॥ तत्पर्य्यायः । सृगः २ । इत्यमरः । २ । ८ । ९१ ॥ (यथा, वैशम्पायनसंहितायाम् । ३ । “भिन्दिपालस्तु वक्राङ्गो नम्रशीर्षो बृहच्छिराः । हस्तमात्रोत्सेधयुक्तः करसम्मितमण्डलः ॥” भिण्डिबालः भिन्दिवालश्चापि इत्येवं पाठद्वयं दृश्यते ।)

"https://sa.wiktionary.org/w/index.php?title=भिन्दिपालः&oldid=154414" इत्यस्माद् प्रतिप्राप्तम्