सामग्री पर जाएँ

भिन्नः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भिन्नः, त्रि, (भिद्यते स्मेति । भिद् + क्तः ।) भेद- विशिष्टः । भाङ्गा इति भाषा । तत्पर्य्यायः । दारितः २ । भेदितः ३ । इत्यमरः । ३ । १ । १०० ॥ विदारितः ४ । इति शब्दरत्नावली ॥ (यथा, हरिवंशे । भविष्यपर्व्वणि । ५३ । १६ । “भ्रान्तमुद्भ्रान्तमाविद्धं प्रविद्धं बहुनिःसृतम् । आकरं विकरं भिन्नं निर्मर्यादममानुषम् ॥”) सङ्गतः । अन्यः । फुल्लः । इति मेदिनी । ने, १४ ॥ क्षतरोगविशेषः । तल्लक्षणं यथा, -- “शक्तिकुन्तेषु खड्गाग्रविषाणैराशयो हतः । यत्किञ्चित् प्रस्रवेत्तद्धि भिन्नमित्यभिधीयते ॥” आशयः कोष्ठः । तस्यौषधं यथा, -- “छिन्ने भिन्ने तथा विद्धे क्षते वासृगतिस्रवेत् । रक्तक्षयात्तत्र रुजः करोति पवनो भृशम् ॥ स्नेहपानपरीषेकलेपांस्तत्रोपनाहनम् । कुर्व्वीत स्नेहवस्तिञ्च मारुतघ्नौषधैर्भिषक् ॥ खड्गादिच्छिन्नगात्रस्य तत्कालं पूरितो व्रणः । गाङ्गेरुकीमूलरसैः सद्यः स्याद्गतवेदनः ॥ कषायमधुराः शीताः क्रियाः सर्व्वाः प्रयोजयेत् । सद्यो ब्रणानां सप्ताहात् पश्चात् पूर्ब्बोक्त- माचरेत् ॥ आमाशयस्थे रुधिरे विदध्याद्वमनं नरः । तस्मिन् पक्वाशयस्थे तु गृह्णीयात् सविरेचनम् ॥ क्वाथो वंशत्वगेरण्डश्वदंष्ट्राश्मभिदा कृतः । हिङ्गुसैन्धवसंयुक्तः कोष्टस्थं स्रावयेदसृक् ॥ यवकोलकुलत्थानां निःस्नेहेन रसेन च । भुञ्जीतान्नं यवागूं वा पिबेत् सैन्धवसंयुताम् ॥ जातीनिम्बपठोलपत्रकटुकादार्व्वीनिशाशारिवा मञ्जिष्ठाभयतिक्ततुत्थमधुकैर्नक्ताह्वबीजैः समैः । सर्पिःसिद्धमनेन सूक्ष्मवदना मर्म्माश्रिताः स्राविणो गम्भीराः सरुजो व्रणाः सगतिकाः शुध्यन्ति रोहन्ति च ॥ वृद्धवैद्योपदेशेन पारम्पर्य्योपदेशतः । जातीघृते तु संसिद्धे क्षेप्तव्यं सिक्थकं बुधैः ॥” जात्यादिघृतम् । इति भावप्रकाशः ॥ * ॥ (अथोपाङ्गचिकित्सा । “छिन्नं भिन्नं तथा भग्नं क्षतं पिच्छितमेवच ॥ दग्धन्तेषां प्रतीकारः प्रोक्तश्चोपाङ्गसंज्ञकः ॥” इति हारीते प्रथमे स्थाने द्वितीयेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=भिन्नः&oldid=154416" इत्यस्माद् प्रतिप्राप्तम्