सामग्री पर जाएँ

भीमः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भीमः, पुं, (बिभेत्यस्मादिति । भी + मक् ।) भया- नकरसः । यथा, -- “भयानको भयस्थायिभावः कालाधिदैवतः । स्त्री नीचप्रकृतिः कृष्णो मतस्तत्त्वविशारदैः ॥” इत्यमरटीकायां भरतः ॥ शिवः । (यथा, मार्कण्डेये । ५२ । ७ । “भवं सर्व्वं तथेशानं तथा पशुपतिं प्रभुः । भीममुग्रं महादेवमुवाच स पितामहः ॥” विष्णुः । यथा, महाभारते । १३ । १४९ । ५२ । “अतुलः शरभो भीमः समयज्ञो हविर्हरिः ॥”) मध्यमपाण्डवः । (यथा, महाभारते । १ । १२३ । १३ । “तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः ॥” अस्य विवरणादिकं भीमसेनशब्दे द्रष्टव्यम् ॥) अम्लवेतसः । इति मेदिनी । मे, २१ ॥ महादेव- स्याष्टमूर्त्त्यन्तर्गताकाशमूर्त्तिः । यथा । भीमाय आकाशमूर्त्तये नमः । इति तिथ्यादितत्त्वे शिवपूजाप्रयोगः ॥ (गन्धर्व्वविशेषः । यथा, महाभारते । १ । ६५ । ४३ । “भीमश्चित्ररथश्चैव विख्यातः सर्व्वविद्बशी ॥” पुरुवंशीयस्य ईलिनस्य पुत्त्रः । यथा, तत्रैव । १ । ९४ । १८ । “ईलिनो जनयामास दुष्मन्तप्रभृतीन् नृपान् । दुष्मन्तं शूरभीमौ च प्रवसुं वसुमेव च ॥”)

"https://sa.wiktionary.org/w/index.php?title=भीमः&oldid=154451" इत्यस्माद् प्रतिप्राप्तम्