भीमनादः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भीमनादः, पुं, (भीमो भैरवो नादो यस्य ।) सिंहः । इति शब्दचन्द्रिका ॥ (भीमो नादः शब्दः । इति विग्रहे भयानकशब्दः । यथा, चातकाष्टके । १ । “वातैर्विधूनय विभीषय भीमनादैः सञ्चूर्णय त्वमथवा करकाभिघातैः । त्वद्वारिबिन्दुपरिपालितजीवितस्य नान्या गतिर्भवति वारिद ! चातकस्य ॥” भयानकशब्दविशिष्टे, त्रि । यथा, महाभारते । १ । १५६ । ३१ । “भीमनादं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महा- रवम् ॥”)
