सामग्री पर जाएँ

भीमम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भीमम्, त्रि, (बिभेत्यस्मादिति । भी + “भियः षुग्वा ।” उणा० १ । १४७ । बिभेतेर्मक् धातोर्वा षुगागमश्च । इति मक् ।) भयहेतुः । तत्- पर्य्यायः । भैरवम् २ दारुणम् ३ भीषणम् ४ भीष्मम् ५ घोरम् ६ भयानकम् ७ भयङ्करम् ८ प्रतिभयम् ९ । इत्यमरः । १ । ७ । २० ॥ (यथा, रघुः । १ । १६ । “भीमकान्तैर्नृ पगुणैः स बभूवोपजीविनाम् । अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः ॥”)

"https://sa.wiktionary.org/w/index.php?title=भीमम्&oldid=154450" इत्यस्माद् प्रतिप्राप्तम्