सामग्री पर जाएँ

भीमसेनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भीमसेनः, पुं, मध्यमपाण्डवः । स च कुन्तीगर्भे पवनाज्जातः । तत्पर्य्यायः । भीमः २ वीरवेणुः ३ वृकोदरः ४ वकजित् ५ कीचकजित् ६ किर्म्मरिजित् ७ जरासन्धजित् ८ हिडिम्बजित् ९ कटव्रणः १० नागबलः ११ गुणाकरः १२ । इति शब्दरत्नावली ॥ तस्य जन्मविवरणं यथा, “धार्म्मिकस्तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् । प्राहुः क्षात्त्रं बलं ज्येष्ठं बलज्येष्टं सुतं वृणु ॥ ततस्तथोक्ता भर्त्त्रा तु वायुमेवाजुहाव सा । तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः ॥ तमप्यतिबलं जातं वागुवाचाशरीरिणी । सर्व्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत ! ॥ इदमत्युद्भुतञ्चासीज्जातमात्रे वृकोदरे । यदङ्कात् पतितो मातुः शिलां गात्रैरचूर्णयत् ॥ कुन्ती व्याध्रभयोद्विग्ना सहसोत्पतिता किल । नान्बबुध्यत तं सुप्तमुत्सङ्गे स्वे वृकोदरम् ॥ वज्रसंहननः सोऽथ कुमारो न्यपतद्गिरौ । पतता तेन शतधा शिला गात्त्रैर्विचूर्णिता ॥” इति महाभारते आदिपर्व्वणि पाण्डवोत्पत्ति- नामाध्यायः ॥ (गन्धर्व्वविशेषः । यथा, महाभारते । १ । १२३ । ५२ । भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा ॥”) कर्पूरभेदः । यथा, -- “पोतासो भीमसेनस्तदनुशितकरः शङ्करा- वाससंज्ञः पांशुः पिञ्जोऽब्जसारस्तदनु हिमयुता वालुका जूटिका च । पश्चादस्यास्तुषारस्तदुपरि सहिमः शीतलः पत्रिकाख्या कर्पूरस्येति भेदा गुणरसमहसा वैसदृश्येन दृश्याः ॥” इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=भीमसेनः&oldid=154462" इत्यस्माद् प्रतिप्राप्तम्