भीमादेवी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भीमादेवी, स्त्री, दुर्गा । यथा, -- “पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले । रक्षांसि क्षययिष्यामि मुनीनां त्राणकारणात् ॥ तदा मां मुनयः सर्व्वे स्तोष्यन्त्यानम्रमूर्त्तयः । भीमादेवीति विख्यातं तन्मे नाम भविष्यति ॥” इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भीमादेवी¦ स्त्री भीमाख्या देवी। दुर्गामूर्त्तिभेदे
“पुनश्चाहं यदाभीमं रूपं कृत्वा हिमाचले। रक्षांसि क्षपयिष्यामि मुनीनांत्राणकारणात्। तदा मां मुनयः सर्वेस्तोष्यन्त्यानम्रमू-र्त्तयः। भीमादेवीतिविख्यातं तन्मे नाम भविष्यति” देवीमा॰