भीमैकादशी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भीमैकादशी, स्त्री, (भीमेनोपासिता एकादशी । शाकपार्थिवादिवत् समासः ।) भैमी । सा च माघशुक्लैकादशी । भीमद्बादशीत्वेन ख्याता च । यथा, -- मत्स्य उवाच । “पुरा रथन्तरे कल्पे परिपृष्टो महात्मना । मन्दरस्थो महादेवः पिनाकी ब्रह्मणा स्वयम् ॥ ब्रह्मोवाच । कथमारोग्यमैश्वर्य्यमनन्तममरेश्वर ! । स्वल्पेन तपसा देव ! भवेन्मोक्षोऽथ वा नृणाम् ॥ किमज्ञातं मया देव ! त्वत्प्रसादादधोक्षज ! । स्वल्पकेनापि तपसा महत् फलमिहोच्यते ॥ मत्स्य उवाच । इति पृष्टः स विश्वात्मा ब्रह्मणा सोकभावनः । उमापतिरुवाचेदं मनसः प्रीतिकारकम् ॥ ईश्वर उवाच । अस्माद्रथन्तरात् कल्पात् त्रयोविंशतिमो यदा । वाराहो भविता कल्पस्तस्य मन्वन्तरे शुभे ॥ वैवस्वताख्ये संजाते सप्तमे सप्तलोकधृक् । द्वापराख्यं युगं तस्मिन् सप्तविंशतिमे तदा ॥ तस्यान्ते स महानीलो वासुदेवो जनार्द्दनः । भारावतरणार्थाय त्रिधा विष्णुर्भविष्यति ॥ द्वैपायनो मुनिस्तद्वद्रौहिणेयोऽथ केशवः । कंसादिदर्पमथनः केशवः शोकनाशनः ॥ पुरी द्वारवती नाम सांप्रतं वा कुशस्थली । दिव्यानुभावसंयुक्तामधिवासाय शार्ङ्गिणः ॥ त्वष्टा ममाज्ञया ब्रह्मन् ! करिष्यति जगत्पतेः ॥ तस्यां कदाचिदासीनः सभायाममितद्युतिः । भार्य्याभिर्वृष्णिभिः सार्द्ध्वं भूभृद्भिर्भूरिदक्षिणैः ॥ कुरुभिर्देवगन्धर्व्वैरभितः कैटभार्द्दनः । प्रवृत्तासु पुराणीषु धर्म्मसम्बन्धिनीषु च ॥ कथासु भीमसेनेन परिपृष्टः प्रतापवान् । त्वया पृष्टस्य धर्म्मस्य रहस्थस्यास्य भेदकृत् ॥ भविता स तदा ब्रह्मन् ! कर्त्ता चैव वृकोदरः । प्रवर्त्तकोऽस्य धर्म्मस्य पाण्डुसूनुर्महाबलः ॥ तस्य तीक्ष्णो वृको नाम जठरे हव्यवाहनः । मया दत्तः स धर्म्मात्मा तेन चासौ वृकोदरः ॥ अतीवान्नादशीलश्च नागायुतबलो महान् । भविष्यत्यजरः साक्षात् कन्दर्प इव बुद्धिमान् ॥ धार्म्मिकस्याप्यशक्तस्य तीव्राग्नित्वादुपोषणे । इमं व्रतमशेषाणां व्रतानामधिकं यतः ॥ कथयिष्यति विश्वात्मा वासुदेवो जगद्गुरुः । अशेषयज्ञफलदमशेषाघविनाशनम् ॥ अशेषदुष्टशमनमशेषसुरपूजनम् ॥ पवित्राणां पवित्रञ्च मङ्गलानाञ्च मङ्गलम् । भविष्यञ्च भविष्याणां पुराणानां पुरातनम् ॥ इदमेव कृतं महेन्द्रमुख्यै- र्वसुभिश्चैव पुरा सुरादिभिश्च । फलमत्र न शक्यतेऽभिवक्तुं यदि जिह्वाकोटयो मुखे स्युः ॥ कलिकल्मषविदारिणीमनन्ता- मिति कथयिष्यति यादवेन्द्रसूनुः । अपि नरकगतान् पितॄनशेषा- नलमुद्धर्त्तुमिहैव यः करोति ॥ य इदमनघं शृणोति चातिभक्त्या परिपठतीह परोपकारहेतोः । तिथिमिह सकलार्थभाङ्नरेन्द्र- स्तव चरणेन स साम्यतामुपैति ॥ कल्याणिनी नाम पुरा बभूव या द्वादशी माघदिनेऽभिपूज्या । सा पाण्डुपुत्त्रेण कृता भविष्य- त्यनन्तपुण्यानघ ! भीमपूर्ब्बा ॥” इति मत्स्यपुराणे भविष्यद्व्रतोद्देशे भीम- द्वादशी नाम ६५ अध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भीमैकादशी¦ स्त्री भीमेनोपास्या एकादशी शाक॰ त॰। माघशुक्लैकादश्याम्। तत्कर्त्तव्यव्रतादिकं मत्स्यपु॰
६५ अ॰उक्तम्।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भीमैकादशी/ भीमै f. N. of the 11th day in the light half of the month माघL. (See. भीम-द्वादशी).
