सामग्री पर जाएँ

भीषणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भीषणः, पुं, (भीषयते इति । भी + णिच् + “भियो हेतुभये षुक् ।” ७ । ३ । ४० । इति षुक् । भीषिधातुस्ततो नन्द्यादित्वात् ल्युः ।) भयानकरसः । इत्यमरटीकायां भरतः, मेदिनी च ॥ कुन्दुरुकः । कपोतः । हिन्तालः । इति राजनिर्घण्टः ॥ शिवः । इति शब्दरत्नावली । शल्लकी इति मेदिनी ॥ (भयोत्पादने क्ली, । यथा, महाभारते । १५ । ७ । ४ । “व्यसनं भेदनञ्चैव शत्रूणां कारयेत्ततः । कर्षणं भीषणञ्चैव युद्धे चैव बलक्षयम् ॥”)

भीषणः, त्रि, (भीषयते इति । भी + णिच् + ततो नन्द्यादित्वात् ल्युः । षुगागमश्च ।) गाढः । दारुणः । इति मेदिनी । णे, ६९ ॥ (यथा, रघौ । १२ । ४० ॥ “पर्णशालामथ क्षिप्रं विकृष्टासिः प्रविश्य सः । वैरूप्यपौनरुक्तेन भीषणां तामयोजयत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=भीषणः&oldid=154484" इत्यस्माद् प्रतिप्राप्तम्