भीष्मः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भीष्मः, पुं, (बिभेत्यस्मादिति । भी + मक् । षुग् वेति पक्षे षुक् ।) भयानकरसः । इत्यमर- टीकायां भरतः ॥ शिवः । राक्षसः । इति हेमचन्द्रः ॥ गाङ्गेयः । स च शान्तनुराज- चक्रवर्त्तिनो गङ्गायां भार्य्यायां जातः । स परम- धर्म्मात्मा महावीरः । येन पितुर्दासकन्या- विवाहार्थं पितृराज्यं त्यक्तं, यश्च स्वस्य विवाहं त्यक्त्वा ऊर्द्ध्वरेता जातः । इति श्रीभागवतम् ॥ तस्योत्पत्तिर्यथा, -- “अथ तामष्टमे जाते पुत्त्रे प्रहसतीमिव । उवाच राजा दुःखार्त्तः परीप्सन् सुतमात्मनः ॥ मा वधीः कासि कस्यासि किञ्च हंसि सुता- निति । पुत्त्रघ्नि ! सुमहत् पापं संप्राप्तं ते सुगर्हिते ! ॥” स्त्र्युवाच । “पुत्त्रकाम ! न ते हन्मि पुत्त्रं पुत्त्रवतांवर ! । जीर्णस्तु मम वासोऽयं यथा स समयः कृतः ॥ अहं गङ्गा जह्नुसुता महर्षिगणसेविता । देवकार्य्यार्थसिद्ध्यर्थमुषिताहं त्वया सह ॥ अष्टौ ये वसवो देवा महाभागा महौजसः । वशिष्ठशापदोषेण मानुषत्वमुपागताः ॥ तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते । मद्विधा मानुषी धात्री लोके नास्ति कदाचन ॥ तेषाञ्च जननीहेतोर्मानुषत्वमुपागता । जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः ॥ देवानां समयस्त्वेष वसूनां संश्रुतो मया । जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति ॥ तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः । स्वस्ति तेऽस्तु गमिष्यामि पुत्त्रं पाहि महा- व्रतम् ॥ एष पर्य्यायवासो मे वसूनां सन्निधौ कृतः । मत्प्रसूतं विजानीहि गङ्गादत्तमिमं सुतम् ॥” इत्यादिपर्व्वणि भीष्मोत्पत्तिनाम १०० अध्यायः ॥
